जराभीरु
jarābhīruपुं · masc.In 8 kośas: 8 synonym verses.
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
बन्धुर्वामो जराभीरुः हृच्छयो मधुसारथिः ।ब्रह्मसूस्त्वनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कामः कन्तुः खरुर्मारः श्रीसुतो विषमायुधः ।कन्दर्पहृच्छयानङ्गजराभीरुरतिप्रियाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
झषकेतुर्जराभीरुः कामः पञ्चशरः स्मरः ।ब्रह्मात्मभूः पत्रिरथः पद्मभूः पङ्कजासनः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
हृच्छयः कमनः कन्तुर्जराभीरुश्च तच्छराः ।मोहनोन्मादनौ शोषणश्च तापनमारणौ ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
अनन्यजोऽङ्गजोऽनङ्गः दर्पको विषमायुधः ।रागरज्जुर्जराभीरुः सर्वधन्वी प्रकर्षकः ॥ ३१२ ॥
अनुष्टुप्
genderपुंmasc.
मधुप्रियोऽथ प्रद्युम्नो जराभीरुः शमातकः ।प्रसूनानिपञ्चेषू कञ्जनो मधुसारथिः ।रागरज्जुः कलाकेलिमधुदीपरवीषवः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
बंधुर्वामो जराभीरुर्हृच्छयो मधुसारथिः ।ब्रह्मसूरनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.