मधुदीप
madhudīpaपुं · masc.In 6 kośas: 6 synonym verses.
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
मधुसारथि-र्मधुसखो मधुदीपोमदनः स्मरो मनसिजः कमनश्च ।विषमाशुगः कुसुमकेतन-कन्तू-रमकश्च काम-कमलासुत-गृत्साः ॥ ३१ ॥
metre not recognised
genderपुंmasc.
मधुदीपमनोजन्मानन्यजा मधुसारथिः ।तिथाङ्गजौ प्रिया चास्य [5] रतिः पुत्रोऽनिरुद्धकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
श्रीनन्दनश्च कन्दर्पः मधुदीपो महोत्सवः ।कन्तुः पुष्पध्वजो नाम मारश्च मधुसारथिः ॥ ३१३ ॥
अनुष्टुप्
genderपुंmasc.
रागरज्जुः कलाकेलिर्मधुदीपो रतिप्रियः ।कन्दर्पो मन्मथोऽनङ्गो दर्पको मकरध्वजः ॥
अनुष्टुप्
genderपुंmasc.
मधुप्रियोऽथ प्रद्युम्नो जराभीरुः शमातकः ।प्रसूनानिपञ्चेषू कञ्जनो मधुसारथिः ।रागरज्जुः कलाकेलिमधुदीपरवीषवः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.