कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मधुसारथि

madhusārathiपुं · masc.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.229 · p. 14
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.23 · p. 10
बन्धुर्वामो जराभीरुः हृच्छयो मधुसारथिः ।ब्रह्मसूस्त्वनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.41 · p. 455
पुष्पपर्यायवाणार्थः संसारगुरुवाचकः ।चन्द्रपर्यायसचिवो मधुपर्यायसारथिः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.31 · p. 11
मधुसारथि-र्मधुसखो मधुदीपोमदनः स्मरो मनसिजः कमनश्च ।विषमाशुगः कुसुमकेतन-कन्तू-रमकश्च काम-कमलासुत-गृत्साः ॥ ३१ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.12 · p. 7
मधुदीपमनोजन्मानन्यजा मधुसारथिः ।तिथाङ्गजौ प्रिया चास्य [5] रतिः पुत्रोऽनिरुद्धकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.313 · p. 41
श्रीनन्दनश्च कन्दर्पः मधुदीपो महोत्सवः ।कन्तुः पुष्पध्वजो नाम मारश्च मधुसारथिः ॥ ३१३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.46 · p. 4
शम्बरारिर्जवाभीरुर्मधुसारथिरङ्गजः ।संकल्पयोनिः पुष्पास्त्रः पुष्पधन्वा मनोभवः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.37 · p. 9
मधुप्रियोऽथ प्रद्युम्नो जराभीरुः शमातकः ।प्रसूनानिपञ्चेषू कञ्जनो मधुसारथिः ।रागरज्जुः कलाकेलिमधुदीपरवीषवः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.29 · p. 5
बंधुर्वामो जराभीरुर्हृच्छयो मधुसारथिः ।ब्रह्मसूरनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.