कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पादबन्धन

pādabandhanaक्ली · neut.

In 9 kośas: 8 synonym verses, 2 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.58
गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे ।गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.326 · p. 95
उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वसी ।गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।छागो रङ्गस्तु छगणो लम्बकर्णः स्तबः पशुः ॥ ३२६ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.432 · p. 180
गोदुहोऽप्यथ तद्भेदा गोजाव्युष्ट्रादिपालनात् ।गोमहिष्यादिकं पादबन्धनं पदबन्धनम् ॥ ४३२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.27 · p. 284
गोमहिष्यादिकं पादबन्धनं पादवन्धनम् ।गोधनं गोकुलं पुंसि व्रजश्च विनिगद्यते ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.95 · p. 20
गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।आरङ्गे लम्बकर्णश्च तच्छगस्तबकः पशुः ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.485 · p. 88
गोपालके तु गोसंख्यगोधुगाभीरबल्लवाः ।गोमहिष्यादिके पादबन्धनं यादवं धनम् ॥ ४८५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.712 · p. 91
निगालोऽस्त्री स्त्रियाम् मन्दूरन्दुकः पादबन्धनः ।कलापकः कर्णवन्धस्त्रिपदी पादबन्धनम् ॥ ७१२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.83 · p. 110
अंदुको निगलो न स्त्री भिदुरं शृंखला त्रयी ।कलापकः कण्ठबन्धस्त्रिपदी पादबन्धनम् ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.15 · p. 91
परिवेषणशब्दोऽयं भोजनायां च वेष्टने ।पादबन्धनशब्दस्तु बन्धने पादवस्तुनः ॥ १५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पञ्चाक्षरकाण्डः Nānārthārṇavasaṃkṣepa 7.16 · p. 91
स्याच्च जीवधनाभिख्ये गोमहिष्यादिवस्तुनि ।मणिसोपानशब्दोऽयं सोपाने मणिनिर्मिते ॥ १६ ॥
अनुष्टुप्
doubtful