कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गोधन

godhanaक्ली · neut.

In 14 kośas: 14 synonym verses, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1273 · p. 49
गवां सर्वं गव्यं व्रजे गोकुलं गोधनं धनम् ॥ १२७३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.58
गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे ।गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.262 · p. 32
व्रजः स्याद्गोकुलं गोष्ठं गोवृन्दं गोधनं धनम् ।गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ २६२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.437 · p. 181
जायमानविषाणाग्रे कटाहस्तच्छिशुर्द्वयोः ।गोमी गवेश्वरो गोमान् गोकुलं गोधनं धनम् ॥ ४३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.88 · p. 151
गोधनः कट्फलोऽथ स्यादारीः खदिरवल्लरी ।धवो दृढः स्थिरो गौरः शाकटाक्षो भरोद्वहः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.27 · p. 284
गोमहिष्यादिकं पादबन्धनं पादवन्धनम् ।गोधनं गोकुलं पुंसि व्रजश्च विनिगद्यते ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.94 · p. 20
गोशकृद्गोमयोऽप्यस्त्री गोग्रन्थिः शुष्कगोमयः ।करिषं दोहलं हव्यं नकुलं गोधनं समे ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.486 · p. 88
गोधनं गोनिवासे स्याद्गोमी गोमान्गवेश्वरे ।पूर्वं गोस्थानघासाङ्कस्थले त्वाशितमिष्यते ॥ ४८६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2298 · p. 372
गव्यं स्याद्वै गवां सर्वं दुग्धं दधि घृतादिकम् ।व्रजो भवति गोस्थानं गोकुलं गोधनं धनम् ॥ २२९८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.120 · p. 145
गोमान् गोमी गोपतौ तद्व्रजे गोधनगोकुले ।स्यादाशितं गवीनं तत् तृप्तिस्थानं गवां पुरा ॥गोवृषो वृषभः शृङ्गी वलीवर्दर्षभौ वृषः ।उक्षाऽनड्वान् सौरभेयः ककुद्मान् भद्र इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.312 · p. 244
गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्विता ।पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.767 · p. 98
गोग्रन्थिर्गोमये शुष्के करीषोऽस्त्री च दोहलम् ।गोकुलं गोधनं जीवधनं चापि गवां व्रजे ॥ ७६७ ॥
अनुष्टुप्
genderक्लीneut.
उत्पलिनी Utpalinī · व्याडि Utpalinī 44 · p. 49
गोकुले धनगोधने ॥ ४४ ॥
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.61 · p. 70
दोहलं तु करीषोऽस्त्री गोकुलं गोधनं समे ।गोमहिष्यादिकं जीवधनं स्यात्पाशबन्धनम् ॥ ६१ ॥
अनुष्टुप्
genderक्लीneut.

गोधन as a meaning in nānārtha verses

  • धरणिकोश धनद्युम्नं पराक्रमं द्रव्यं वनं कानननीरयोः । वस्ने वेतनदानीये धनं गोधनवित्तयोः ॥ Dharaṇikośa 19.1.1
  • कोषकल्पतरु धनइनो नृपे भर्तरि भास्करे स्या- द्धनोऽस्त्रियां गोधनवित्तयोश्च । जिनस्तु बुद्धे नरि जित्वरार्ह- वृद्धेषु तु स्यान्निजभेद्य लिङ्गः ॥ ८२ ॥ Koṣakalpataru 6.21.82
  • शब्दरत्नावली धनधनुर्ना राशिभेदे स्यात्पियालद्रुमचापयोः । धनं वित्ते गोधने च स्नेहपात्रेऽपि न द्वयोः ॥ Śabdaratnāvalī 7.20.12