वृषल
vṛṣalaपुं · masc.In 17 kośas: 18 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.
शूद्रान्त्यवर्णौ वृषलः पद्यः पज्जो जघन्यजः ॥ ८९४ ॥ते तु मूर्धाभिषिक्ताद्यारथकृन्मिश्रजातयः ।
अनुष्टुप्
genderपुंmasc.
शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः ।आचण्डालात्तु सङ्कीर्णा अम्बष्ठकरणादयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जश्च कथ्यते ।लेखकः स्याल्लिपिकरः कायस्थोऽक्षरजीवकः ॥ ५८६ ॥
अनुष्टुप्
genderपुंmasc.
उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वसी ।गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।छागो रङ्गस्तु छगणो लम्बकर्णः स्तबः पशुः ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जो राण्मनुजास्पृश्या आभीरूरिति कथ्यते ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
शून्यस्कन्धातकौ शूद्रे यज्रो दासो महत्तरः ।ग्रामकूटोऽवरवर्णो वृषलश्च जघन्यजः ॥ १ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
महापद्मस्तु नन्दः स्याद[108a ]ग्निमित्रस्तु शूद्रकः ।वृषलश्चन्द्रगुप्तः स्याद्बिन्दुसारस्तु तत्सुतः ॥ २९ ॥
अनुष्टुप्metre not read in every lineLatin letters: a
genderपुंmasc.
शूद्रो जघन्यजः पज्जो वृषलोऽवरवर्णकौ(कः) ।पद्योऽन्त्यवर्णोऽप्युक्तोऽथ ग्रामकूटो महत्तरः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
आपीनमूधो वृन्तस्तु स्तनो वत्सस्तु तर्णकः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वशी ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
वृषलोऽन्त्यवर्णशूद्रौ च कारुः प्रकृतिकारिणौ ।[85] शिल्पी शिल्पं कला ज्ञानं विपूर्वं लिखनादि तत् ॥ ४१९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
हरीतकीविभीतक्यामलकी त्रिफला मता ।शूद्रे स्यादवरवर्णो वृषलश्च जघन्यजः ॥ ५६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
genderपुंmasc.
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जः पद्यश्च पज्जातः पादजो जन्तुसूदनः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
अन्त्यवर्णस्तथा शूद्रः पद्यः पञ्जो जघन्यजः ।वृषलश्चेति नामानि शूद्रस्य संभवन्ति वै ॥ १५०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
genderपुंmasc.
शूद्रो जघन्यजो दासः पादजोऽवरवर्णजः ।अन्त्यजन्मा च वृषलो जघन्यो द्विजसेवकः ॥
अनुष्टुप्
genderपुंmasc.
शूद्रोऽन्त्यवर्णो वृषलः पज्जः पद्यो जघन्यजः ।चण्डालवर्जिता एते शूद्राः संकरजा अपि ॥ १५०९ ॥
अनुष्टुप्
genderपुंmasc.
विषाणी वृषभः शृंगी वाहो गौरक्षधूर्तिलः ।उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वही ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
शृंगिबेरं महाकन्दं हंसच्छत्रं कलापकम् ।पिप्पली मागधी शौण्डी वृषलं चोषणा बला ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
शूद्रोऽन्त्यवर्णो वृषलो द्विजपोतो जघन्यजः ।पज्जः पद्योऽप्येकजातिः शूद्राः संकरजा अपि ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वृषलश्चन्द्रगुप्ते स्याद्वृषलः शूद्र इष्यते ।उपलौ रत्नपाषाणावुपला शर्करापि च ॥
अनुष्टुप्
स्याल्लातरि वृषार्थस्य वृजिनं तु बले नपि ।पापे च ना तु केशे स्यात् कुटिले त्वभिधेयवत् ॥ १७३९ ॥
अनुष्टुप्
meaningsवृषार्थलातृ
doubtful
विशाली नृपभिद्वृक्षभिदोर्ना पृथुले त्रिषु ।वृषलो गृञ्जने शूद्रे चन्द्रगुप्ते च वाजिनि ॥
अनुष्टुप्
वृषल as a meaning in nānārtha verses
- कोषकल्पतरु दासदानस्य पात्रे वृषले च भृत्ये कैवर्तके योषिति झिण्टिकायाम् ॥ ७६ ॥ Koṣakalpataru 6.31.76
- नानार्थार्णवसंक्षेप पद्यछन्दःसु नप्यथो पद्या स्त्री मार्गे वृषले द्वयोः । क्ली पादबद्धग्रन्थे स्यात् त्रिः पद्यं पदसाधुनि ॥ ७१३ ॥ Nānārthārṇavasaṃkṣepa 2.5.713