कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लम्बकर्ण

lambakarṇaपुं · masc.

In 9 kośas: 9 synonym verses, 3 as a nānārtha head word.

बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.326 · p. 95
उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वसी ।गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।छागो रङ्गस्तु छगणो लम्बकर्णः स्तबः पशुः ॥ ३२६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.470 · p. 185
अजा संजा सर्वभक्षा चुलुम्पा च गलस्तनी ।छागी चाथ पशुश्छागो लम्बकर्णश्च वर्करः ॥ ४७० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.43 · p. 322
अन्यागोधाण्डजा ज्ञेया शशकस्तु विलेशयः ।लम्बकर्णः श्रुतगतिः शूलिको लोमकर्णकः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.40 · p. 192
इत्यादयो मृगेन्द्राः स्युः शशस्तु मृदुलोमकः ।लम्बकर्णो लोमकर्णः शूलिकश्च बिलेशयः ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.95 · p. 20
गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् ।आरङ्गे लम्बकर्णश्च तच्छगस्तबकः पशुः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.132 · p. 10
शीतलाश्वो लम्बकर्णो रासभो धूसरः खरः ।उष्ट्रवामी वेसराख्यो लम्बग्रीवः क्रमेलकः ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.148 · p. 147
लम्बकर्णश्च मेनादो वुक्कोऽल्पायुः शिवाप्रियः ।मेषो रोमश ऊर्णायुरुरभ्रो भेड-भेडकौ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.24 · p. 75
संस्फालहुडुभेडाश्च मेषी स्याज्जालकिन्यविः ।वर्करस्तु लम्बकर्णश्छागो बस्तः शिवाप्रियः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
उत्पलिनी Utpalinī · व्याडि Utpalinī 17 · p. 47
कपाली जृम्भको लिम्पः स्थूलोऽकर्णविकर्णकौ ।लम्बकर्णो महाशीर्षो हस्तिकर्णः प्रमर्दनः ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.61 · p. 203
शिरोरत्ने काकचिञ्चाफले चूडामणिर्मतः ।अङ्कोटपादपे छागे लम्बकर्णोऽपि रासभे ॥ ६१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.531 · p. 72
लम्बकर्णो द्वयोश्छागे समासाद्यत्र पूर्ववत् ।लेलिहानो द्वयोः सर्पे यस्तु लेढा मुहुर्भृशम् ॥ ५३१ ॥
अनुष्टुप्
meaningsछाग
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.138 · p. 138
छागेऽपि लम्बकर्णः स्याद्वेणुर्वंशे नृपान्तरे ।वाणा झिण्ट्यां शरे वाणो वृष्णिर्यादवमेषयोः ॥ १३८ ॥
अनुष्टुप्
meaningsछाग