कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बल्लव

ballavaपुं · masc.

In 8 kośas: 8 synonym verses, 2 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.499 · p. 30
पौरोगवः सूदाध्यक्षः सूदस्त्वौदनिको गुणः ॥ ७२२ ॥भक्तकारः सूपकारः सूपारालिकबल्लवाः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.739 · p. 35
गोपाले गोधुगाभीरगोपगोसंख्यबल्लवाः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.46
पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ॥ २७ ॥आरालिका आन्धसिकाः सूदा औदनिका गुणाः ।
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.346 · p. 97
धूसरश्चाक्रिकश्च स्यादाभीरः शूद्रकोऽपि च ।महाशूद्रस्तु गोपालो बल्लवो गोविदुर्विदुः ॥ ३४६ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.348 · p. 145
तुल्या[79]वंतःपुराध्यक्षेऽन्तर्वंशिकावरोधिकौ ।सूपकारो भक्तकारो बल्लवः सूद इत्यपि ॥ ३४८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 शि (wrong syllable)
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.441 · p. 82
पौरोगवः पाककारे पाकस्थानं महानसम् ।सूपशाकव्यञ्जनादिपाचके बल्लवः पुमान् ॥ ४४१ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.485 · p. 88
गोपालके तु गोसंख्यगोधुगाभीरबल्लवाः ।गोमहिष्यादिके पादबन्धनं यादवं धनम् ॥ ४८५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.50 · p. 39
गोकुलं तु व्रजो घोषो गोष्ठं गोपास्तु बल्लवाः ।दुग्धं पयोऽमृतं क्षीरं गोरसः क्षीरजं दधि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास वार्धश्लोकः Dharaṇikośa 28.2.15 · p. 207
बल्लवो भीमसेने स्याद्बल्लवो गोपसूदयोः ।भैरवः कथितः शम्भौ भैरवं भीषणं स्मृतम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.16 · p. 361
नाके तु न स्त्री त्रिदिवः स्त्रियां तु[न]द्यन्तरे गोदुहि बल्लवः स्यात् ।स्यात्सूपकारेऽपि हिडिम्बशत्रौना पल्लवः षिद्गगतोऽस्त्रियां तु ॥ १६ ॥
इन्द्रवज्रा

बल्लव as a meaning in nānārtha verses

  • कोषकल्पतरु गोपआक्रोशे शपथे च शाप उदितः स्वापस्तु निद्राज्ञता- स्पर्शाज्ञत्व उदीरितस्त्रपु पुनः स्यात्सीसके रङ्गके । नीपो धूलिकदम्बरायधरयो(?)नीलेऽप्यशोके तथा गोष्ठग्रामगणाधिकारिणि नृपे गोपो भवेद्बल्लवे । गोपी तु गोपाल[26a]नितम्बिनी स्या- त्स्यात्सारिकायामपि रक्षिकायाम् । क्षेपो विलम्बेऽपि च निन्दने ना हेलामदप्रेरणलङ्घनार्थाः ॥ ४ ॥ Koṣakalpataru 6.22.4
  • परमानन्दीयनाममाला दोग्धृदंष्ट्राभिलाषयोर्दाढा दोग्धा बल्लववत्सयोः । द्रोणः काकान्तरे भूध्रकृपीपत्योर्द्रुणः शरे ॥ २३५ ॥ Paramānandīyanāmamālā 5.16.235