कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

यान्ताः · यच

अलिप्रिया तु जम्बूभिन्नेपाल्ये न हलिप्रिये ॥ ३६१ ॥
21.3.361 · p. 33
कण्टकाढ्या कुब्जमोचामसूरविदलासु च ।घुणप्रियाप्रतिविषाहस्तिदन्त्योः स्त्रियां मता ॥ ३६२ ॥
21.3.362 · p. 33
अनुष्टुप्
जीवनीया जयाजीवाकाकवीरासु ना गणे ।तण्डुलीयः शाकभेदे विडङ्गे धातुमाक्षिके ॥ ३६३ ॥
21.3.363 · p. 33
अनुष्टुप्
तृणशून्यं तु केतक्यां मल्ल्यां च तृणशून्यवत् ।धनञ्जयश्चित्रके स्यादर्जुनेऽरुष्करेऽपि च ॥ ३६४ ॥
21.3.364 · p. 33
अनुष्टुप्
पार्वतीया तु मोदक्यां धातक्यामभयाभिदि ।प्रावृषेण्यात्मगुप्तायां कुलत्थे ना हरिप्रिये ॥ ३६५ ॥
21.3.365 · p. 33
अनुष्टुप्
मुनिप्रियो ब्रह्मवृक्षनृत्यकुण्डघनुःपटे ।रविप्रियादित्यभक्तानिम्बयोः पुंसि मार्कवे ॥ ३६६ ॥
21.3.366 · p. 33
अनुष्टुप्
वेधमुख्या मृगमदे वेधमुख्यतु केसरे ।शतवीर्या शतावर्य्यां दूर्वायां च शुकप्रिया ॥ ३६७ ॥
21.3.367 · p. 33
अनुष्टुप्
राजादने च दाडिम्यां निम्बे ना तु कपीतने ।हरिप्रियं कालसारे कदम्बे तु हरिप्रियः ॥ ३६८ ॥
21.3.368 · p. 34
अनुष्टुप्