कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

फ

pha

In 4 kośas: 0 synonym verses, 12 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ फान्ताः Koṣakalpataru 6.23.1 · p. 274
निष्फलवचने फः स्याद्भयतस्त्राणे च फूत्कारे ।
उपजातिःmetre not read in every line
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.31 · p. 4
फो झंझापवने फेने फूर्वातूलककुब्वचोः ।विण्नरेऽवस्करे वैश्ये बः पद्मघटयोरपि ॥ ३१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश फान्ताः Śabdaratnāvalī 7.22.1 · p. 250
फकारश्चाक्षरे ख्यातस्तथा झञ्झासमीरणे ।फः कोपे फाश्चसन्तापे तथा निष्फलभाषणे ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.23 · p. 3
फ-कारश्च महेशानि! शिखी चैव जनार्दनः ।ब-कारो भूधरश्चैव दश गण्डो वरानने! ॥ २३ ॥
अनुष्टुप्
फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्दनः ।जया पादः शिखा रौद्री फेत्कारः शाखिनीप्रियः ॥ १२५ ॥
अनुष्टुप्
उमा विहङ्गमः कालः कुब्जिनी प्रिय-पावकौ ।प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥ १२६ ॥
अनुष्टुप्
-----------------------------------फुत्कारो यामिनी व्यक्ता पावनो मोहवर्धनः ।निष्फला वागहङ्कारः प्रयागो ग्रामणीः फलम् ॥ १२७ ॥
अनुष्टुप्metre not read in every line
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.24 · p. 25
पवने पः समाख्यातः पाः पाने पाश्च पातरि ।कफे वाते फ-कारः स्यात्तथाह्वाने प्रकीर्त्तितः ॥ २४ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.25 · p. 25
झञ्झावाते फ-कारः स्यादक्षरे च प्रकीर्त्तितः ।कोपे फिश्च समाख्यातस्तथा निष्फलभाषणे ॥ २५ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.39 · p. 44
वामपार्श्वोऽथ वैकुण्ठः शिवोऽनलस्त्रिपत्रकः ।कान्तोरगौ सरित् फुल्लः फट्कारः फा-र्णको मतः ॥ ३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.42 · p. 64
धूमध्वजः करालाग्निः सोर्ध्वकेशीन्दु-बिन्दुभिः ।युगान्तकारकं बीजं भैरवेण प्रकाशितम् ॥स्फें॥
अनुष्टुप्