फलोदय
phalodayaपुं · masc.In 9 kośas: 8 synonym verses, 4 as a nānārtha head word.
फलोदयो मेरुपृष्ठं वासवावाससैरिकौ ।दिदिविर्दीदिविर्द्युश्च दिवं च स्वर्गवाचकाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
फलोदयः सुरावासः स्वर्गो नाकस्त्रिविष्टपम् ।बुधायनं महायामदिवसावासभूमिका ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
स्वर्गः फलोदयो मेरुपृष्ठं तविषताविषौ ।त्रिविष्टपं भुविर्गौः स्वः द्योदिवौ त्रिदिवं मतम् ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
नाको जीवन्तिका माला चावरोधः फलोदयः ।नभो गुलूची दुर्वारा दूर्वा चिन्तितकामदा ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
सैरिकस्त्रिदशावासो भुविस्तविषताविषौ ।दिदिविर्वासवावासो मेरुपृष्ठं फलोदयः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
स्वरव्ययं देवलोक-सुरलोक-फलोदयाः ।स्वर्गावरोह-त्रिदिव-स्वर्लोक-नागमन्दराः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
genderपुंmasc.
स्वर्लोको देवलोकः स्यादवरोहः फलोदयः ।मन्दरः सैरिभः शक्रभवनं खं दिवं नभः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
स्वर्गो नाकः सुरावास ऊर्ध्वलोकः फलोदयः ।सौरिको भोगभूमिः स्त्री दिवि द्यौश्च त्रिविष्टपम् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
फेरवो राक्षसे फेरौ स्वर्गलोके फलोदयः ।
meaningsस्वर्गलोक
आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः ।हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु ।पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते ।लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥परमात्मनि तीर्थे च विहारे च महालयः ।अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् ।बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः ।युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)