कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लाभ

lābhaपुं · masc.

In 14 kośas: 10 synonym verses, 26 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.717 · p. 35
मूल्यद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.141
नीवी परिपणो मूलधनं लाभोऽधिकं फलम् ।
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.48 · p. 3
एकादशं भवं लाभं प्राप्तिमापमुदाहृतम् ।अन्त्यं व्ययं द्वादशमं रिष्यं प्राहुर्मुनीश्वराः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.480 · p. 186
अपि मूलधनं चाथ तत्र लाभोऽधिकं धनात् ।वाणिज्यं च वणिज्या स्यान्मूल्यं वस्नोप्यवक्रयः ॥ ४८० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.67 · p. 288
कन्यापालः पालवणिक्कन्याजीवश्च स स्मृतः ।मूल्यं निमानं वस्नोऽस्त्री पुंस्यर्घोऽवक्रयस्तथा ।नीवी परीणयो मूलं लाभोऽधिकफलं हि यत् ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति विड्वर्गः Śāradīyākhyanāmamālā 3.3.47 · p. 39
मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् ।सत्यापनं सत्यंकारो मूल्यवस्त्वर्थवक्रयाः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1366 · p. 231
लाभः फलश्च व्यापारे मूलादधिकप्रापणे ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.157 · p. 148
अधिके तु फले लाभो लभ्यं स्याद्बृद्धिरित्यपि ।परिवर्तः परीवर्तो नैमेयो नियमोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1502 · p. 182
नीवी परिपणमेषां मूलधनेऽथाधिकं फलं लाभः ।स्त्रियां वणिज्या वाणिज्यं व्यवहारो ग्लहः पणः ॥ १५०२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.70 · p. 128
वस्नोऽर्घोऽवक्रयो मूल्यं बन्धः प्रणय आधिकः ।नीवी परिपणं मूलं धनं लाभोऽधिकं फलम् ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.

लाभ as a meaning in nānārtha verses

  • धरणिकोश योगयोगः स्यात्सदुपायसंनहनयोर्भैषज्यसंयोगयो- र्विष्कम्भादिषु योग आत्ममनसोः संनीलतायामपि । संबन्धेऽपि च कार्मणेऽपि च तथा ध्याने च लाभेऽप्यसौ योगः सद्भिरुदीरितोऽथ वपुषः स्थैर्ये प्रयोगेऽपि च ॥ Dharaṇikośa 3.3.5
  • धरणिकोश फलफलं सस्ये शराद्यग्रे फलके व्युष्टिदानयोः । लाभे हेतुसमुत्थे च प्रियङ्गस्तु फली स्मृता ॥ Dharaṇikośa 27.3.1
  • कोषकल्पतरु प्राप्नोतिप्राद्युक्तावुदये लाभेऽथाक्ष्णौतिरधितः परः । अधिकारे च सांमुख्ये व्याप्ति-संघातयोरपि ॥ ७७ ॥ Koṣakalpataru 3.5.77
  • कोषकल्पतरु भवतिभवत्यपि च लाभार्थेवेर्लभिर्दानवाचकः । विप्रात्प्रतारणे प्रोक्तो विरहे प्रत्युपात्परः(?) ॥ ८० ॥ Koṣakalpataru 3.5.80
  • कोषकल्पतरु आ-सद्पूयते स्याद्दलति च सीदत्यपि च शीयते । फलति स्याद्विशरणे लाभे सीदतिराङ्परः ॥ ४९ ॥ Koṣakalpataru 3.5.49
  • कोषकल्पतरु आप्तिकुड्ये प्रदेशेऽपि च संधिभागे तथावकाशेऽप्यथ संवृ(भृ?)ते स्यात् । लाभे तथाप्तिः सुमहोदये तु प्राप्तिश्च लाभे परमे तथोक्ता ॥ ५८ ॥ Koṣakalpataru 6.16.58
  • कोषकल्पतरु वित्तिआतिः शरार्यां गमनेऽपि योषित् वित्तिस्तु संभूतिविचारयोः स्त्री । ज्ञानेऽथ लाभेऽप्यथ गुप्तिरुक्ता कारागृहे स्यादवनेऽवटेऽपि ॥ ६० ॥ Koṣakalpataru 6.16.60
  • कोषकल्पतरु आसत्तिआसत्तिः स्त्री लाभे सङ्गे पर्याप्तिस्तु त्राणे प्राप्तौ । प्राकाम्येऽथो निर्वृत्तिः स्याद्वैराग्यादौ पञ्चत्वेऽपि ॥ ४० ॥ Koṣakalpataru 6.16.40
  • कोषकल्पतरु आराधनआराधनं स्याद्धनतुष्टिलाभे- ऽप्यथोपधानं प्रणये विशेषे । स्याद्गण्डुकेऽथ प्र[णि]धानमुक्तं समाहितौ च प्रसवे प्रयत्ने ॥ ३ ॥ Koṣakalpataru 6.21.3
  • कोषकल्पतरु फलोदयचन्द्रोदयस्त्वौषधिभिद्विताने फलोदयः स्यात्त्रिदिवे च लाभे । महोदयं पुंसि न कन्यकुब्जे मोक्षे पुमान्स्याच्च तथाधिपत्ये ॥ ८७ ॥ Koṣakalpataru 6.26.87
  • कोषकल्पतरु फलहेतूस्थितेऽन्त्ये फलके फलं च व्युष्टौ च लाभे सुमनःफले च । कङ्कोलबाणाग्रकधान्यकेषु फलत्रिके स्यात्फलिनीगतः स्त्री ॥ ४८ ॥ Koṣakalpataru 6.28.48
  • नानार्थार्णवसंक्षेप आप्तिकण्ठे चेत्यपरेऽथाजिरुत्कृष्टा लिङ्गभेदतः । आप्तिः प्रत्ययितत्वे स्याल्लाभसम्बन्धयोरपि ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 2.1.8
  • नानार्थार्णवसंक्षेप फलपौंस्नं पुंसवने क्लीबं पुंसः सम्बन्धिनि त्रिषु । फलं फाले धने बीजे निष्पत्तौ भोगलाभयोः ॥ ८२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.825
  • नानार्थार्णवसंक्षेप ?अना क्लीबं तु सत्तायां भवेल्लाभविचारयोः । वेणुकं गजतोत्रे क्ली वेणुका तु स्त्रियामियम् ॥ १७४३ ॥ Nānārthārṇavasaṃkṣepa 4.1743
  • परमानन्दीयनाममाला आसत्तिआयतिर्भावसंहत्योरेष्यत्काले स्वतन्त्रके । आसत्तिः संगमे लाभेऽथात्मभूः कामरुद्रयोः ॥ ३५ ॥ Paramānandīyanāmamālā 5.1.35
  • परमानन्दीयनाममाला फलपारिजातस्तु मन्दारे पारिभद्रेऽपि कथ्यते । फलं हेतुकृते लाभे फणा सर्पफटे स्मृता ॥ ३२३ ॥ Paramānandīyanāmamālā 5.19.323
  • शब्दरत्नावली प्राप्तिप्राप्तिः स्त्री प्रायणे लाभे सङ्गतौ च महोदये । प्रीतिः प्रेम्णि च योगे स्यात्प्रीतं हर्षणनर्मयोः ॥ Śabdaratnāvalī 7.16.24
  • शब्दरत्नावली वित्तिवित्तिर्लाभे विचारे च सम्भवे स्यादपि स्त्रियाम् । वित्तं धने क्लीबलिङ्गं त्रिषु ख्याते विचारिते ॥ Śabdaratnāvalī 7.16.53
  • शब्दरत्नावली आसत्तिआसत्तिर्लाभसंगत्योरापत्तिः प्रापणापदोः । स्यादुदन्तः पुंसि साधौ वार्तायां वृत्तियोजने ॥ Śabdaratnāvalī 7.16.88
  • शब्दरत्नावली फलोदयआश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥ पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥ प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥ परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥ शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥ कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥ पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ Śabdaratnāvalī 7.26.57
  • शब्दरत्नावली तत्तदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः । भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) ॥ यद्गर्हायामधृतौ च हेतावपि निगद्यते । यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च ॥ Śabdaratnāvalī 8.1.37
  • शब्दरत्नाकर फलफालो निरीषके स्फोटे श्वेतार्के दाडिमे फले । भोगनिष्पत्तिलाभेषु बीजे फाले धने फलम् ॥ १९६३ ॥ Śabdaratnākara 4.1.1963
  • त्रिकाण्डशेष व्याप्तिवर्तने विवृतौ वृत्तिर्वर्तिदीपदशास्वपि । लाभसम्बन्धयोर्व्याप्तिर्विश्वस्ता विधवापि च ॥ १८३ ॥ Trikāṇḍaśeṣa 3.3.183
  • त्रिकाण्डशेष फलोदयपौलस्त्यौ रावणश्रीदौ स्वर्गलाभौ फलोदयौ । ब्राह्मण्यं ब्रह्मसङ्घेऽपि बालेयौ मृदुगर्द्दभो ॥ ३१७ ॥ Trikāṇḍaśeṣa 3.3.317
  • त्रिकाण्डशेष फलपिङ्गलः यत् कपावग्नावाशुव्रीहिश्च पाटलः । फलं जातिफले लाभे बाणाग्रे फलकेऽपि च ॥ ४०१ ॥ Trikāṇḍaśeṣa 3.3.401
  • वैजयन्ती फलस्यात्परेत इव प्रेतो मृतप्राणिविशेषयोः । लाभनिष्पत्तिभोगेषु बीजे फाले धने फलम् ॥ ५२ ॥ Vaijayantī 6.5.52