कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दूर्वा

dūrvāस्त्री · fem.

In 20 kośas: 19 synonym verses, 48 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.128 · p. 46
दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः ।गुन्द्रो मुञ्जः शरो दूर्वा त्वनन्ता शतपर्विका ॥ ११९२ ॥हरिताली रुहा पोटगलस्तु धमनो नडः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.230
कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ।सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता ॥ १५८ ॥गोलोमी शतवीर्या च गण्डाली शकुलाक्षका ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.191 · p. 24
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.257 · p. 89
स्त्रीभूषणं रजःपुष्पं तप्तरागं निगद्यते ।दूर्वा … सहवीर्या तु शतवीर्या तु सा सिता ।इक्षुः कान्तारकश्च स्याद्दर्भे तु स्यात्परित्रकः ॥ २५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 दू (syllables merged)
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 48 · p. 5
आदारिमूलकाद्याश्च शाकभेदाः प्रकीर्तिताः ।दूर्वा स्यादमृता कृष्णा शतमाता तु सा सिता ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.4 · p. 461
मांसीहरिद्रालूदूर्वावलाकाकृष्णलागिराम् ।यत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.31 · p. 464
खट्वा ग्रीवा तथा दूर्वा लट्वा सारिवया शिवा ।कशा शिवा कुशोशापि दशेषामिक्षया समा ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.16 · p. 185
पालघ्नो गोमयप्रेष्ठं छत्रातिच्छत्रकावपि ।भूतृणं च वियन्मूलं दूर्वा तु शतपर्विका ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.378 · p. 203
तृणे स्यादर्जुनं घासे यवसं चारिरित्यपि ।दूर्वायां तु शतपर्वा भार्गवी विजया जया ॥ ३७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.69 · p. 16
दूर्वा सहस्रवीर्या तु शतवीर्या तु सा सिता ।शष्पं बालतृणं शादः सर्वं तु तृणमर्जुनम् ॥ ६९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.111 · p. 66
तेजनो मुञ्जगुन्द्रौ च दूर्वा स्याच्छतपर्विका ।हरिताली रुहानन्ता नडपोटगलौ समौ ॥ १११ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.34 · p. 215
रोचनासरघालक्ष्मीधाय्यादूर्वागिरः स्त्रियाम् ।हरिद्राकृष्णलामांसिबलाकालूमुखा अपि ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.63 · p. 9
नाको जीवन्तिका माला चावरोधः फलोदयः ।नभो गुलूची दुर्वारा दूर्वा चिन्तितकामदा ॥ ६३ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.191 · p. 14
छिन्नोद्भवा मृतलता गुडूची मधुपर्णिका ।मूर्वा दूर्वा मधुरसा मोरटा तेजिनी मिरा ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2152 · p. 354
हरिताली रुहाऽनन्ता दूर्वा च शतपर्णिका ।तथा सहस्रवीर्या च भार्गवी शतपर्विका ॥ २१५२ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.296 · p. 79
दूर्वा सहस्रवीर्या स्यादनन्ता शतपर्विका ।रुहा नन्दा भार्गवी च शतपर्वा महावरा ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.36 · p. 310
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.673 · p. 86
दूर्वा तु हरिताली स्याच्छतवीर्या च भार्गवी ।सितदूर्वा तु गोलोमी श्वेताङ्गी शतमूलिका ॥ ६७३ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.43 · p. 43
घनामयः स्यात्खर्जूरो द्वौ तु काचिमभञ्जरू ।तरौ देवकुलोद्भूते दूर्वा तु हरितालिका ॥ ४३ ॥
अनुष्टुप्
genderस्त्रीfem.

दूर्वा as a meaning in nānārtha verses