भारद्वाजी
bhāradvājīस्त्री · fem.In 9 kośas: 8 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.
genderस्त्रीfem.
वनजाऽरण्यकार्पासी भारद्वाज्यथ शृङ्खली ।वज्रास्थिशृङ्खला वज्रकण्टकः कोकिलाक्षकः ॥ ५२७ ॥
अनुष्टुप्
genderस्त्रीfem.
भारद्वाजी सुकर्णा च शीतपूरा महाबला ।ऋक्षगन्धा पीतपुष्पी रिष्यप्रोक्ता महासहा ॥ ५७ ॥
अनुष्टुप्
genderस्त्रीfem.
भारद्वाजी च भद्राथ कार्पासो बादरः पिचुः ।पिचव्यस्तूलमप्यस्याः सूत्रेथ वरतिक्तकः ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
कार्पास्यां तु समुद्रान्ता बदरा तुण्डिकेर्यपि ।सा तु वन्या भारद्वाजी भद्रा चन्दनबीजिका ॥ १५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
genderस्त्रीfem.
भार्द्वाजी वनकार्पासी भारद्वाजी यशस्विनी ।महावीर्या सुवीर्या च तथा वनसरोजिनी ॥
अनुष्टुप्
genderस्त्रीfem.
वनकर्पासिकायां तु सहा चन्दनबीजिका ।भारद्वाजी महावीर्या कुष्ठला कुष्ठनाशिनी ॥ ११५ ॥
अनुष्टुप्
genderस्त्रीfem.
तुण्डिकेर्यां रवा शीरा केसरा बदराफला ।कार्पास्यक्ल्यत्र वन्यायां भारद्वाज्यपि कुष्ठनुत् ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
भारद्वाजी वन्यकार्पासिकायांपुंसि त्वश्वत्थाम्न्यथो सार्वभौमे ।इन्दौ श्रीदे राजराजोऽथ मल्ल-स्थाने ** यक्षराट् स्यात्कुबेरे ॥ ४३ ॥
शालिनीmetre not read in every linenearly शालिनी
meaningsवन्यकार्पासिका
व्याघ्राटाख्ये पक्षिभेद ऋषिभेदे तु पुंस्ययम् ।स्त्रियां तु वन्यकार्पास्यां भारद्वाजी द्वयोः पुनः ॥ ४३३ ॥
अनुष्टुप्
meaningsवन्यकार्पासी
भारद्वाजी मुनौ द्रोणे वनकार्पासके स्त्रियाम् ।भृङ्गराजः पक्षिवृक्षभिदो मधुकरेऽपि च ॥
अनुष्टुप्
भारद्वाजी as a meaning in nānārtha verses
- शिवकोष महाबलाकाकमाच्यामथो क्लीबं विज्ञेयं कटुकाफले । महाबलं सीसके स्याद्भारद्वाज्यां महाबला ॥ ४८७ ॥ Śivakoṣa 23.3.487