All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
लान्ताः · लच
एकाष्टीला स्त्रियां पुंसि पापचेल्याम्बुके क्रमात् ।कन्दरालः पुमान् गर्दभाण्डे प्लक्षतरावपि ॥ ४८० ॥
23.3.480 · p. 44
अनुष्टुप्
अथ कर्षफलो धात्र्यां बिभीतकतरावपि ।क्षीरवल्ली हेमदुग्धाविदारीक्षीरिणीषु च ॥ ४८१ ॥
23.3.481 · p. 44
अनुष्टुप्
अथ गन्धफली फल्यां चम्पकस्य च कोरके ।गन्धमूला पद्मनाड्यां सुरभौ द्राविडे पुमान् ॥ ४८२ ॥
23.3.482 · p. 44
अनुष्टुप्
ताम्रमूला दुरालम्भा समङ्गाञ्जलिकारिके ।तोयवल्ल्यम्बुसुषवीलाङ्गलिक्योर्दलामलम् ।483 ॥
23.3.5 · p. 44
अनुष्टुप्metre not read in every line
फणिज्जके च दमने दीर्घमूलो यवासके ।दीर्घमूला स्थिरागोप्योः क्लीबं वेल्लन्तरे शरे ॥ ४८४ ॥
23.3.484 · p. 44
अनुष्टुप्
प्रचीवलोऽम्बुपिप्पल्यां काकाह्वागण्डदूर्वयोः ।अथ पुष्पफला नील्यां पुंसि तालकपित्थयोः ॥ ४८५ ॥
23.3.485 · p. 44
अनुष्टुप्
कूष्माण्डे तु द्वयोः पोटगलः काशे नले पुमान् ।अथो बहुफलो नीपे ना मलय्वां तु योषिति ॥ ४८६ ॥
23.3.486 · p. 44
अनुष्टुप्
काकमाच्यामथो क्लीबं विज्ञेयं कटुकाफले ।महाबलं सीसके स्याद्भारद्वाज्यां महाबला ॥ ४८७ ॥
23.3.487 · p. 44
अनुष्टुप्
महाफला तु कूष्माण्ड्यां पुल्लिङ्गश्चोचबिल्वयोः ।मुक्ताफलं तु कर्पूरे मौक्तिके लवलीफले ॥ ४८८ ॥
23.3.488 · p. 44
अनुष्टुप्
यवफलो मांसिकायां कुटजत्वचिसारयोः ।अथ रक्तफला बिम्ब्यां वटे रक्तफलः पुमान् ॥ ४८९ ॥
23.3.489 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 फ (wrong syllable)
वृश्चिकाली मेषशृङ्ग्यां वर्षाभूभिदि च स्त्रियाम् ।समष्टिलस्तोयमार्गे गण्डीरे तु समष्टिला ॥ ४९० ॥
23.3.490 · p. 45
अनुष्टुप्
सदाफलो नालिकेरे मालरे जतुमत्फले ।सोमवल्ल्यमृताब्राह्मीचक्राङ्गीवाकुचीषु च ॥ ४९१ ॥
23.3.491 · p. 45
अनुष्टुप्
अथ सौवर्चलं स्वर्जिक्षारे च लवणान्तरे ।हरिताली तु दूर्वायां काशे ताले तु न द्वयोः ॥ ४९२ ॥
23.3.492 · p. 45
अनुष्टुप्