कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वन्या

vanyāस्त्री · fem.

In 9 kośas: 10 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.4
वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.10 · p. 249
वन्या वनसमूहे स्यादङ्कुरोङ्कूरमस्त्रियाम् ।प्ररोहोऽभिनवोद्भेदे तत्र पर्वसमुद्भवे ॥ १० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.430 · p. 297
दीर्घवल्ली दृढलता वन्या गोपालकर्कटी ।क्षुद्रेर्वारुर्वायसी तु काकाक्षी काकनासिका ॥ ४३० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.496 · p. 304
कालप्रियकरी वन्या वराहपत्रिका च सा ।हपुषा विपुषा विस्रा विगन्धाऽथापराजिता ॥ ४९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 134
वनी तदल्पं वन्या तु वनानां संहतिः स्त्रियाम् ।आरामः स्यादुपवनं वेलं चापवनं च तत् ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.7 · p. 57
अथ वन्या वनव्यूहे वान्या च कथिता बुधैः ।कडम्बश्च कलम्बः स्यादङ्कूरोऽङ्कुर एव च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.436 · p. 58
वन्या वनसमूहे स्याद्वन्यं वनभवे त्रिषु ।महारण्यमरण्यानी प्रस्तारस्तु तृणाटवी ॥ ४३६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.99 · p. 53
तुण्डिकेर्यां रवा शीरा केसरा बदराफला ।कार्पास्यक्ल्यत्र वन्यायां भारद्वाज्यपि कुष्ठनुत् ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.161 · p. 58
बहुजाल्यां कोशफला वन्या तिक्तपटोलिका ।कर्कोटक्यां कोशफला राजकोशातकी फला ॥ १६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.14 · p. 187
धूम्या वात्या पाश्या हल्या गल्या नट्या वन्या तृण्या ।पृष्ठ्यं तत्तद्वृन्दे सर्वं पार्श्वं बृन्दे पर्शूनां स्यात् ॥ १४ ॥
metre not recognised
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.12 · p. 152
वन्यं वनभवे वन्या जलारण्यसमूहयोः ।ग्राम्यं स्त्रीकरणेऽश्लीले ग्राम्यः स्यात्प्राकृतो जनः ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1184 · p. 144
वंशी वन्यस्तु पुंसि स्याद् धान्ये मर्कटकाह्वये ।वेत्रे च स्त्री तु वन्या स्याद् वनवृन्दे लतान्तरे ॥ ११८४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1185 · p. 144
तिक्तकोशातकीसंज्ञे क्ली तु कंसोत्पले त्रि तु ।वनसाधौ वंशभवे पुनर्वंश्यस्त्रिषु स्त्रियाम् ॥ ११८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वं (wrong syllable)
शिवकोष Śivakoṣa · शिवदत्तमिश्र यद्विः Śivakoṣa 21.1.346 · p. 32
रम्यं पटोलमूले स्त्री रात्रौ पुंसि तु चम्पके ।वन्यं तु क्षुद्रमुस्तायां त्वचि वाट्या बलाभिदि ॥ ३४६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.30 · p. 259
लयः सङ्गीतसाम्ये स्यात्संश्लेषणविनाशयोः ।लक्ष्यं शरव्ये क्लीबं स्यादपदेशेऽपि कीर्त्यते ॥व्रज्या पर्यटने वर्गे प्रस्थाने संगतेऽपि च ।वाच्यं हीने कुत्सिते स्याद्वचनार्हे तु वाच्यवत् ॥वन्या वनाम्बुसन्दोहे वन्यं बनभवे त्रिषु ।विन्ध्यो व्याधाचलभिदोर्विन्ध्याचलवलीद्रुमे ॥
अनुष्टुप्

वन्या as a meaning in nānārtha verses