कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

समुद्रान्ता

samudrāntāस्त्री · fem.

In 10 kośas: 14 synonym verses, 6 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.138
यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ॥रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.167
तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.133
मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः ।समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.526 · p. 308
कर्पासी वदरी वर्च्या समुद्रान्ता मरूद्भवा ।तुला पिचुर्गुडोऽपि स्याद्वादरस्तुण्डकेरिका ॥ ५२६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.97 · p. 167
पञ्चमुष्टिमरुन्माला समुद्रान्ता सुगन्धिका ।लघुः शुभा च मरुता नीलपुष्पी सुरात्मजा ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.70 · p. 173
रोदिनी कच्छुरानन्ता ताम्रमूली विशारदा ।गन्धारिका समुद्रान्ता दुरालम्भा दुरालभा ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 178
शतपुष्पी समुद्रान्ता साच्छादनफलापि च ।अन्यावन्द्यफला भद्रकर्पासी शोणपुष्पिका ॥ ३२ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.157 · p. 86
कार्पास्यां तु समुद्रान्ता बदरा तुण्डिकेर्यपि ।सा तु वन्या भारद्वाजी भद्रा चन्दनबीजिका ॥ १५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.170 · p. 93
स्पृक्कायां ब्राह्मणी पङ्कमुष्टिका पिशुना वधूः ।समुद्रान्ता मरुन्माला निर्माल्या देवपुत्रिका ॥ १७० ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.228 · p. 125
अधिकण्टकः कुनाशस्ताम्रमूली प्रतोदनी ।दुःस्पर्शा कच्छुराऽनन्ता समुद्रान्ता दुरालभा ॥ २२८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण्ट (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.173 · p. 70
अनन्ता च समुद्रान्ता दुरालभ्भा च रोदिनी ।पृश्निपर्णी पृश्निपर्णिः धारणिर्धारणी गुहा ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.210 · p. 73
कर्पासी वदरा सूत्रपुष्पा च वदरीत्यपि ।समुद्रान्ता तुण्डिकेरी तथा कापालिकापि च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.244 · p. 76
पृक्का दैवीलता पृक्का समुद्रान्ता लघुर्वधूः ।कोटीवर्षा कोटिवर्षा मरुन्माला लता मरुत् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 131 · p. 537
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.64 · p. 77
पारावती तु गोपानां गीते पारावतः खगः ।समुद्रान्ता तु कार्पासी पृक्का चापि दुरालभा ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.42 · p. 229
स्पृक्कायां कार्पास्यां दुरालभायां समुद्रान्ता ।
उपगीतिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.53 · p. 6
समुद्रान्ता तु दुःस्पर्शे कार्पासीस्पृक्कयोरपि ।स्ववासिनी चिरण्ट्यां स्यान्नववध्वां च सज्जनः ॥ ५३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र तच Śivakoṣa 12.3.210 · p. 20
शतक्रतुर्मतः श्वेतकरवीरे च वत्सके ।समुद्रान्ता तु कर्पास्यां स्पृक्कायां च यवासके ॥ २१० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.175 · p. 226
सदागतिर्ना वातार्कमोक्षेषु च सदीश्वरे ।सरस्वान्नदभेदेऽब्धौ पुंसि स्याद्रसिकेऽन्यवत् ॥सरस्वती च वाग्देवीवाणीस्त्रीरत्नगोषु च ।सत्यवती व्यासमातृनारदर्च्चीकयोषिति ॥समुद्रान्ता तु कार्यासीपृक्कादुरालभासु च ।समाहितो निर्विवादे प्रतिज्ञातेऽभिधेयवत् ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 दु (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 8.2.10 · p. 271
समुद्रान्ता यवाषे च कार्पासीस्पृक्कयोरपि ।गौर्यामपि सिनीवाली मदिरापि हरिप्रिया ॥ १० ॥
अनुष्टुप्