कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मलद

maladaपुं · masc.

In 5 kośas: 6 synonym verses, 2 as a nānārtha head word.

बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.260 · p. 89
महाबुसो हायनश्च माषस्तु मलदो बली ।मुद्गस्तु प्रथनो लोह्यः पीतेऽस्मिन् वसुखण्डिकः ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.209 · p. 34
माषस्तु मलदो मांसं घरी बीजवरो बली ।मुद्गस्तु प्रथनो लोह्यो बलाङ्गो हरितो हरिः ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.376 · p. 50
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1422 · p. 172
माषस्तु मलदो नन्दी वृष्यो बीजवरो बली ।तिलपुष्पं वज्रपुष्पं जर्तिलोऽरण्यजस्तिलः ॥ १४२२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.36 · p. 38
तत्र स्युर्मलदाः स्थौराः करूशास्तु बृहद्गृहाः ।त्रैपुरास्तु हहालाः स्युश्चैद्यास्ते चेदयश्च ते ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.35 · p. 125
माषस्तु मलदो नन्दी घरी बीजवरो बली ।वृष्यो महावृषो गुच्छा कुलिंगाटी फलांकुरा ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1361 · p. 166
त्रि स्त्री पुनरुदक्यायां मलिना मलदस्तु ना ।माषधान्ये भूम्नि चासौ स्थौराख्ये नीवृदन्तरे ॥ १३६१ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1362 · p. 166
भेद्यलिङ्गं तु विज्ञेयं मलस्य स्यात् प्रदातरि ।मशकस्त्वृषिभेदे ना द्वयोस्तु क्षुद्रपक्षिणि ॥ १३६२ ॥
अनुष्टुप्