कुरु
kuruपुं · masc.In 10 kośas: 9 synonym verses, 4 as a nānārtha head word, 1 as a meaning of another word.
काम्बोजा दरदाश्चोलाः शकाश्चीनाश्च पुण्ड्रकाः ।कर्णाटा द्रविडा लाटाः कुरु-कोशल-काशयः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
कटीर-भसदी श्रोणिफलकं च कटोऽप्यथो ।पश्चान्नितम्ब आरोहः स्त्रीकट्या जघनं पुरः ॥पुंसि कोष्ठोऽन्तराधिः स्यात्पृष्ठवंशाधरे त्रिकम् ।नाभिर्द्वयोः कुरुस्तुण्डिस्तुन्दकूपी ततस्त्वधः ॥मूत्राशयो द्वयोर्बस्तिस्तया मूत्रपुटं भवेत् ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कुरोरपत्यं क्षत्रं यत्तत्कौरव्यं बहूक्तिषु ।कुरूणि ब्राह्मणास्त्वित्थं कौरव्या इति सम्मताः ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
यज्ञत्यागी वृथाजातोऽपञ्चयज्ञो मलिम्लुचः ।याजका भारता यज्ञालिहः कुरव ऋत्विजः ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
भरतान्यैरावतानि विदेहाश्च विना कुरून् ।क्षेत्राणि कर्मभूम्यः स्युः पञ्चदशैव नामतः ॥ १६०५ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 द (wrong syllable)
genderपुंmasc.
आशितश्चाशिरो, भक्ते कुरुः, कूरं च दग्धिका ।भिः साटा भिस्सटा भिस्सा, दधिसर्वरसाग्रके ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
सक्तुश्वूर्णक आपूप्यो भक्तं कुरुः प्रसादनः ।मण्डो ज्येष्ठाम्बु खदिका लाजाः पारी तु दोहनी ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
genderपुंmasc.
याजका भरता यज्ञलिहः कुरव ऋत्विजः ।यतस्रुचो देवयवो वाघतो वृक्तबर्हिषः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
अयसि स्त्री कुरुस्तु स्याद् ऋत्विग्राजर्षिभेदयोः ।ना नीवृदन्तरे त्वेष पुंभूम्न्यप्युत्तराह्वये ॥ २४८ ॥
अनुष्टुप्
वर्षे कुरोस्तु राज्ञः स्यात् स्त्र्यपत्ये स्त्री कुरूरथ ।कुन्दुर्द्वयोर्मूषिके स्यात् पालक्यासंज्ञके तु ना ॥ २४९ ॥
अनुष्टुप्
meaningsवर्ष
ऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि ।ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥करो रश्मौ च करके शुण्डप्रत्यायपाणिषु ।कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् ।कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी ।क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि ।कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति ।क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च ।चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ।खुरः शफे कोलदले तथा छेदनवस्तुनि ॥क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च ।खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
कुरु as a meaning in nānārtha verses
- तन्त्राभिधान बिन्दुद दुर्गावाचकं देवि ऊकारश्चापि रक्षणे । विश्वमाता नादरूपः कुर्वर्थो बिन्दुरूपकः ॥ Tantrābhidhāna 11.4