मरु
maruपुं · masc.In 16 kośas: 20 synonym verses, 7 as a nānārtha head word, 6 as a meaning of another word.
genderपुंmasc.
genderपुंmasc.
genderपुंmasc.
उर्वरा सर्वसस्या भूर्भवेदिरिणमूषरम् ।खिलमप्रहतं स्थानं मरुर्धन्वा स्थलं स्थली ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
अथ ब्रह्मजटायां तु सल्लज्जं दानवं जनम् ।पुण्डरीकं दवनकं कान्तं दान्तं मुनिर्मरुः ॥ २३२ ॥
अनुष्टुप्
genderपुंmasc.
तथा चाप्रहतं क्लीबे मरुर्धन्वानुभौ नरि ।गोष्ठं गोस्थानकं क्लीबे गौष्ठीनं भूतपूर्वकम् ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
पूषिः स्यादथ दीपाधो दण्डे सति शिखा मरुः ।दीपार्थाद्वृक्षपर्यायः कौमुदी तरुरित्यपि ॥ ४२९ ॥
अनुष्टुप्
genderपुंmasc.
मरुर्धन्वा जाङ्गलोऽथ जगती वैष्ट्रकं जगत् ।भुवनं विष्टपं चास्त्री पिष्टपं विश्वमन्तिमे ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
देशाश्चैद्याश्चेदयः स्युर्मरवस्तु दशेरुकाः ।साल्वाः स्युः कारकुक्षीयाः साल्वकस्तद्भवो नरः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंmasc.
माधुमताश्च काश्मीरास्तर्जिकास्तायिका मताः ।दशेरकाश्च मरवो वाहीकाष्टक्किसंज्ञिताः ॥ २४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderपुंmasc.
प्रशस्ताथाप्रशस्ता स्यादूषरश्चोषकः खिलः ।जलराहित्यभूमौ स्यान्मरुर्धन्वा च धन्व च ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
स्थला कृत्रिमभूमिः स्यात् मरुर्धन्वा जलं विना ।अप्रहतं खिलं क्षेत्रं कृतं यत्र न कर्षणम् ॥ १५९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
genderपुंmasc.
मरुदेशाः हि विज्ञेयाः मरवश्च दशेरकः ।जालन्धरास्त्रिगर्त्ताः स्युःर्लाहोरस्यैकदेशकाः ॥ १६३१ ॥
अनुष्टुप्
genderपुंmasc.
स्थली दैवकर्तृकेऽन्यत्स्थलं क्लीबे स्थलेत्यपि ।निर्जले मरुधन्वानौ खिलमप्रहतं समम् ।त्रिषु स्याज्जगती लोको जगद्भुवनपिष्टपम् ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मरुर्धन्वा च पुंसि द्वौ खिलं चाप्रहतं त्रिषु ।द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ॥ ३६९ ॥
अनुष्टुप्
genderपुंmasc.
काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाःपाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः ।लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाःवङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥
स्रग्धरा
genderपुंmasc.
साल्वास्तु कालकुत्सीया अङ्गाश्चम्पोपलक्षणाः ।कुह्मालिकास्तु यौधेया मरवस्तु दशेरकाः ।लम्पाकास्तु मुरुण्डाः स्युर्मालवाः स्युरवन्तयः ॥ ३८५ ॥
अनुष्टुप्
genderपुंmasc.
अथ देशा मध्यदेशे मरवस्तु दशेरकाः ।साल्वास्तु कारकुत्सीयास्तेषां त्ववयवाः परे ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
मरवः पुंसि धन्वान आसारी तु स्थली स्थलम् ।कचंगला तु नीलिंगी भूर्नानाजंतुसंयुता ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
सोमवंशजहर्यश्वपुत्रे भूम्नि तु नीवृति ।दशेरकाख्ये मन्थी तु भास्करे राहुचन्द्रयोः ॥ ९४ ॥
अनुष्टुप्
doubtful
मरु as a meaning in nānārtha verses
- धरणिकोश धन्वन्पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि । धन्वा स्थाने च चापे च धन्वा मरुरपि स्मृतः ॥ Dharaṇikośa 19.2.9
- नानार्थार्णवसंक्षेप धन्वन्ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः । स्थलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.637
- नानार्थार्णवसंक्षेप दशेरदशेरः सारमेये च सर्पे चाथो नृभूमनि । मरुसंज्ञे जनपदे दशेरा दर्पकस्तु ना ॥ ९१५ ॥ Nānārthārṇavasaṃkṣepa 4.915
- शब्दरत्नावली कामलकदली कदलं रम्भाद्रुमेऽपि न निगद्यते । कामलः कामलारोगे पुमान् मरुवसन्तयोः ॥ Śabdaratnāvalī 7.28.50
- शब्दरत्नाकर धन्वन्मरुर्धन्वा धनुर्धन्व धवः पत्यौ द्रुमान्तरे । धृतिः सौख्ये धारणे च धाता ब्रह्मणि पोषके ॥ १९४४ ॥ Śabdaratnākara 4.1.1944
- त्रिकाण्डशेष धन्वन्धन्वा मरौ धन्वचापे धावनं गतिशौचयोः । निर्भर्त्सनं खलीकारालक्तयोरथ नन्दनम् ॥ २४४ ॥ Trikāṇḍaśeṣa 3.3.244