यदृच्छा
yadṛcchāस्त्री · fem.In 10 kośas: 11 synonym verses.
यदृच्छा स्वैरिता स्वेच्छा नाथवान्निघ्नगृह्यकौ ।तन्त्रायत्तवशाधीनच्छन्दवन्तः परात्परे ॥ ३५६ ॥
अनुष्टुप्
genderस्त्रीfem.
साकल्यासङ्गवचने पारायणतुरायणे ।यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् ॥ २ ॥
अनुष्टुप्
genderस्त्रीfem.
अनायासार्थकं फाण्टमन्तर्गडु निरर्थकम् ।स्वाच्छन्द्यं निर्निमित्तं च यदृच्छेत्यभिधीयते ॥ ७७४ ॥
अनुष्टुप्
genderस्त्रीfem.
तदेव पारणं क्लीबे स्युरेते पुरतः स्त्रियाम् ।यदृच्छा स्वैरिता हेतुशून्या त्वस्या विलक्षणम् ॥ ४ ॥
अनुष्टुप्
genderस्त्रीfem.
भङ्गा जङ्घा च सरघा वचा चिञ्चा यदृच्छया ।कच्छा पिच्छा भुजा पिञ्जा स्यात्तुल्या प्रजया स्वजा ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
रोचको अथ तर्षः स्याद्वित्सा स्त्री चोपलासिका(?) ।एवं स्त्रियस्तत्तदिच्छासूक्ताः पिपठिषादयः ।यदृच्छा स्वैरिता स्वेच्छा तथा स्वाधीनता स्त्रियः ॥ २०३ ॥
अनुष्टुप्
genderस्त्रीfem.
यदृच्छा नाथवान्निघ्नगृह्यकौ श्लीललक्ष्मणौ ।लक्ष्मीवानीश्वरश्चेभ्यो धमाढ्योऽपि विभाव्यते ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
अपावृतौ यथाकामी तथापि निरवग्रहः ।स्वेच्छा च स्वैरिता चैव यदृच्छा मन्यते किल ॥ ५२६ ॥
अनुष्टुप्
genderस्त्रीfem.
आसङ्गवचने स्यात्तु परायणमपि त्रिषु ।वृत्तिर्विनाभिसन्धानं यदृच्छास्वैरिता च सा ॥
अनुष्टुप्
genderस्त्रीfem.
भ्रेषोऽधःपतने प्लोष ओषः स्यात् संभ्रमस्त्वरा ।यदृच्छा स्वैरताहेतुरिष्टिरिच्छा वृषा वृषे ॥ १७२६ ॥
अनुष्टुप्
genderस्त्रीfem.
व्यत्यासो व्यतिहारः स्यादन्तर्गडु निरर्थकम् ।तत्क्षणं स्यादेकपदं यदृच्छा नियमोज्झितिः ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
genderस्त्रीfem.