कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वाराणसी

vārāṇasīस्त्री · fem.

In 13 kośas: 12 synonym verses, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.974 · p. 38
काशिर्वराणसी वाराणसी शिवपुरी च सा ॥ ९७४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.287 · p. 34
विदेहा मिथिला प्रोक्ता काशिर्वाराणसी स्मृता ।अवन्त्युज्जयिनी ज्ञेया कन्यकुब्जा महोदया ॥ २८७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.21 · p. 11
काशी वाराणसी काशिर्वरणासी वराणसी ।महाश्मशानमानन्दवनं क्लीबेऽविमुक्तकम् ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.77 · p. 15
वाराणसी वारणसी वाणारस्यपि काशिका ।अविमुक्तं शिवपुरं दिवोदासपुरं च तत् ॥ ७७ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.258 · p. 36
कान्यकुब्जं गाधिपुरं काश्यां वाराणसीत्यपि ।[21] वराणसी शिवपुरी विदेहा मिथिलापि च ॥ २५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गा (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1669 · p. 268
काशी काशिश्च प्रख्याता वाराणसी वराणसी ।शिवपुरी च नामानि मन्यन्ते पण्डितै जनैः ॥ १६६९ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.43 · p. 48
मथुरा स्यान्मधुपुरी मथुरा मधुरा च सा ।वाराणसी जित्वरी स्यात्तथा काशी तपस्थली ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.44 · p. 48
वाराणसी वरणसी तीर्थराजी च काशिका ।विशाला स्यादुज्जयनी भवेदुज्जयिनी च सा ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.25 · p. 220
कन्यकुब्जं, शिवपुर्यां कासिस्तालव्य-दन्त्यभृत् ।वराणसी वाराणसी वाणारसी वराणसिः ॥ २५ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1810 · p. 219
कपिञ्जलो वञ्जुलः स्यात् पिङ्गला ऋषिरित्यपि ।स्यात् साकेतमयोध्यायां काशी वाराणसी समे ॥ १८१० ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव भूमिवर्गः Trikāṇḍaśeṣa 2.1.16 · p. 32
वाराणसी तीर्थराजी विशालोज्जयिनी समे ।चम्पा तु मालिनी पुष्पपुरं पाटलिपुत्रकम् ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.7 · p. 159
वाराणसी शिवपुरी वारणास्यपि काशिका ।मिथिला पूर्विदेहेषु कन्याकुब्जो महोदयः ॥ ७ ॥
अनुष्टुप्
genderस्त्रीfem.

वाराणसी as a meaning in nānārtha verses

  • धरणिकोश काशीकाशास्तृणविशेषे स्युः काशी वाराणसी पुरी । वेशो गृहे प्रवेशे च वेश्यावासे च भूषणे ॥ Dharaṇikośa 29.2.4
  • कोषकल्पतरु काशीकाशस्तृणे योषिति[ नाथ ]वा[81a]रा- णस्यां स्त्रियां स्याद्वरुणे तु केशः । ह्रीबेरबालासुरभित्सु कीशः शाखामृगे पुंसि दिगम्बरे च ॥ ७ ॥ Koṣakalpataru 6.30.7
  • नानार्थार्णवसंक्षेप काशीवाराणस्यामथो कायः शरव्ये निवहे तनौ । ना त्रिः कदेवते क्षारः पुनः क्षरणभस्मनोः ॥ १९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.194
  • नानार्थार्णवसंक्षेप जित्वरीअग्नौ च जित्वरे तु त्रिर्जित्वा त्विन्द्रेऽपि योद्धरि । ना स्त्री तु जित्वरी नद्यां वाराणस्यां च वाणिजाः ॥ ४८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.481
  • शब्दरत्नावली काशअंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् । आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥ आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् । ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥ काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् । अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥ Śabdaratnāvalī 7.30.2