महोदय
mahodayaपुं · masc.In 10 kośas: 18 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
दध्ना तु मधुसंयुक्तं मधुपर्कं महोदयः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderपुंmasc.
गया पूर्गयराजर्षेः कान्यकुब्जं महोदयम् ॥ ९७३ ॥कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
genderक्लीneut.
गुरुभस्म महाभस्म वेधार्हं वादजीवितम् ।अग्नीन्द्रियं शातकुम्भं तपनीयं महोदयम् ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
कोशलाथो कन्यकन्या-कान्येभ्यः कुब्जमित्यपि ।महोदयं गाधिपुरं कौशं द्वारवतीत्यपि ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
रशनारसनाभ्यां च शंवतुंव महोदयैः ।मृगव्यकांस्यवीर्याणां वाष्पवाणिज्ययोरपि ॥ १३१ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderपुंmasc.
हास्तिनं च गया तु स्त्री गयपूरथ पुंसि ना ।कन्याकुब्जं कन्यकुब्जं कौशं द्वंद्वे महोदयम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
दध्ना युते मधुन्यस्त्री मधुपर्क्कं महोदयः ।यज्ञशेषे सुरोच्छिष्टममृतं च प्रकीर्त्तितम् ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
महोदयं कांस्यमृगव्यचव्य-वणिज्यवीर्याणि तमिस्र-शस्त्रे ।त्वक्क्षीरकादम्बर-मन्दिराणिमसूरनासीरयुतानि तद्वत् ॥ ८३ ॥
उपजातिः
genderस्त्रीक्लीf. n.
पुरार्धविस्तरः खेटः तथा शाखापुरे पुनः ।उपपूर्वपुरे चाथ कन्याकुब्जं महोदयम् ॥ २५७ ॥
अनुष्टुप्
genderक्लीneut.
महोदयापवर्गौ च निर्वाणं सर्वदुःखहृत् ।निःश्रेयसं च निर्याणं मोक्षनामान्यमूनि हि ॥ २६७ ॥
अनुष्टुप्
genderपुंmasc.
मोक्षोऽपवर्गो निर्वाणं मुक्तिर्निःश्रेयसं शिवः ।महोदयोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
महानन्दोऽमृतं मुक्तिः मोक्षो ब्रह्म महोदयः ।श्रेयो निःश्रेयसं सिद्धिः कैवल्यमपुनर्भवः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
दध्याजं च दधिप्राज्यं कथ्यते पण्डितै जनैः ।दध्ना स्यान् मधुसंपृक्तं मधुपर्कं महोदयः ॥ १३८८ ॥
अनुष्टुप्
genderपुंmasc.
कन्याकुब्जं तथा कौशं कन्यकुब्जं कुशस्थलम् ।गाधिपुरं महोदयं चेति कन्नोज उच्यते ॥ १६६८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्याद्द्वारका द्वारवती कान्यकुब्जं महोदयः ।महोदयं कन्यकुब्जं माहिष्मत्यां वृकस्थली ॥ १८११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वाराणसी शिवपुरी वारणास्यपि काशिका ।मिथिला पूर्विदेहेषु कन्याकुब्जो महोदयः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः ।हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु ।पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते ।लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥परमात्मनि तीर्थे च विहारे च महालयः ।अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् ।बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः ।युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)
महोदय as a meaning in nānārtha verses
- शब्दरत्नावली प्राप्तिप्राप्तिः स्त्री प्रायणे लाभे सङ्गतौ च महोदये । प्रीतिः प्रेम्णि च योगे स्यात्प्रीतं हर्षणनर्मयोः ॥ Śabdaratnāvalī 7.16.24