कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

शान्ताः · शार्धश्लोकः

॥ शार्धश्लोकः ॥

विट् स्मृतो मनुजे वैश्ये प्रवेशे विट् च कीर्तिता ।दृक् स्मृता दर्शने बुद्धौ नेत्रे च दृक् च वीक्षणे ॥
29.2.1 · p. 211
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
दशावस्था [100] दशा वर्तिर्वाससोऽवयवो दशा ।निशा रात्रौ हरिद्रायां महापूर्वार्धरात्रके ॥
29.2.2 · p. 212
अनुष्टुप्
पांशुर्धूलिषु सस्यार्थे चिरसंचितगोमये ।केशोऽसुरान्तरे केशा ह्रीवेराप्पतिकुन्तलाः ॥
29.2.3 · p. 212
अनुष्टुप्
काशास्तृणविशेषे स्युः काशी वाराणसी पुरी ।वेशो गृहे प्रवेशे च वेश्यावासे च भूषणे ॥
29.2.4 · p. 212
अनुष्टुप्
नाशः पलायने प्रोक्तो निधनानुपलम्भयोः ।दंशः स्यात्खण्डने दोषे दंशश्च वनमक्षिका ॥
29.2.5 · p. 212
अनुष्टुप्
दर्शस्तु स्यादमावास्या यश्चात्र वैदिको विधिः ।स्पर्शः स्यात्स्पर्शके रोगे दानस्पर्शनयोरपि ॥
29.2.6 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
पेशीमण्डे मांसपिण्ड्यां मांसकाख्यौषधिं विदुः ।कपिशः कपिले प्रोक्तः कपिशी मदिरा मता ॥
29.2.7 · p. 212
अनुष्टुप्
विवशः स्यादवश्यात्मा विवशोऽरिष्टदुष्टधीः ।कुलिशं त्वस्थिसंहारसंज्ञौषधिः स्वरुस्तथा ॥
29.2.8 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
सदेशसवेशौ निकटे देशवेशान्वितौ क्रमात् ।निर्वेशस्तु भृतौ भोगे क्वापि सम्मूर्च्छने स्मृतः ॥
29.2.9 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रदेशो देशमात्रेऽपि तर्जन्यङ्गुष्ठसम्मिते ।उड्डीशो ग्रन्थभेदे स्यादुड्डीशः शंकरः स्मृतः ॥
29.2.10 · p. 213
अनुष्टुप्
उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् ।आदर्शो दर्शने प्रोक्तो मूलं यल्लिखनादिके ॥
29.2.11 · p. 213
अनुष्टुप्
सुखाशो राजतिमिषे आशा यस्य सुशोभना ।कीनाशोऽपांशुर्विख्यातः कदर्ये कर्षके यमे ॥
29.2.12 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शु (wrong syllable)
प्रकाशोऽतिप्रसिद्ध स्यादातपे च स्फुटेऽपि च ।दुःस्पर्शाख्या खरस्पर्शं कण्टकारी दुरालभा ॥
29.2.13 · p. 214
अनुष्टुप्
विपाशा निम्नगा काचिद्विपाशा पाशवर्जिता ।विकेशी पटवर्तिः स्याद्विकेशी केशवर्जिता ॥
29.2.14 · p. 214
अनुष्टुप्
उपस्पर्शो गौण?स्पर्शे स्नानाचमनयोरपि ।[101] उपदंशो विदंशः स्याच्छेकाव्याधावपि स्मृतः ॥
29.2.15 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गौ (wrong syllable)
प्रतिस्पर्शः सहाये स्याद्वार्ताहारपुरोगयोः ।अपदेशं विदुर्लक्षे निमित्तव्याजयोरपि ॥
29.2.16 · p. 214
अनुष्टुप्
परिवेशः परिवृतावुपसूर्यकमण्डले ।आश्रयाशः स्मृतो वह्निर्योऽपि चाश्रयनाशकः ॥
29.2.17 · p. 214
अनुष्टुप्
नागपाशः स्मृतः स्त्रीणां करणे वारुणायुधे ।पलंकशा च मुण्डीरीलाक्षागुग्गुलकेषु च ॥
29.2.18 · p. 214
अनुष्टुप्