कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विश्वसृज्

viśvasṛjपुं · masc.

In 7 kośas: 7 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.17
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.3 · p. 439
विरञ्चो विश्वसृड्ब्रह्मा स्त्रियां संजश्चिरन्तनः ।अष्टश्रवाः शतधृतिः पद्मपर्यायलाञ्छनः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.58 · p. 14
परमेष्ठि-शतानन्द-विश्वसृड्विश्वरेतसः ।सात्विको लाभभूरिष्णुर्धरुणः प्रपितामहः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.9 · p. 2
धाता विधाता लोकेशो विरञ्चिर्विश्वसृड्ध्रुवः ।सुरज्येष्ठः कमलभूः स्वयंभूर्नाभिभूरजः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.274 · p. 37
श्वेतपत्ररथश्चापि हिरण्यगर्भहंसगौ ।विरिञ्चश्च विरिञ्चिर्वै विरञ्चिश्चापि विश्वसृट् ॥ २७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्य (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.89 · p. 184
परमेष्ठस्त्रिकवर्गद्वितीयकलितावमू ।नाभिभूर्नाभिजन्मा च विश्वसृट् विश्वसृक् तथा ॥ ८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.10 · p. 2
ब्रह्मा विश्वसृडात्मभूः शतधृतिर्धाता विधाता विधि-र्वेधा हंसरथो विरिञ्चिरमरज्येष्ठो विरिञ्चोऽब्जभूः ।वागीशश्चतुराननः सरसिजावासः स्वयंभूरजःकः स्रष्टा द्रुहिणः प्रजापतिशतानन्दौ स्वभूर्नाभिजः ॥ १० ॥
शार्दूलविक्रीडितम्
genderपुंmasc.