विरिञ्चि
viriñciपुं · masc.In 10 kośas: 9 synonym verses, 1 as a nānārtha head word, 7 as a meaning of another word.
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
metre not recognised
द्रुहिणपुंविरिञ्चिपुंद्रुघणपुंविरिञ्चपुंपरमेष्ठिन्पुंअजपुंअष्टश्रवणपुंस्वयंभूपुंकमनपुंकविपुंसात्त्विकपुंवेदगर्भपुंस्थविरपुंशतानन्दपुंपितामहपुंकपुंधातृपुंविधातृपुंविधिपुंवेधस्पुंध्रुवपुंपुराणगपुंहंसगपुंविश्वरेतस्पुंप्रजापतिपुंब्रह्मन्पुंचतुर्मुखपुंभवान्तकृत्पुंजगत्कर्तृपुंसरोरुहासनपुंशम्भुपुंशतधृतिपुंस्रष्टृपुंसुरज्येष्ठपुंविरिञ्चनपुंहिरण्यगर्भपुंलोकेशपुंआत्मभूपुं
genderपुंmasc.
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
द्रुहिणो द्रुहणोऽपि स्याद्द्रुघनश्च त्रयः समाः ।विरिञ्चिः स्याद्विरिञ्चश्च स्वयंभुः स्यात् स्वयंभुवा ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
श्वेतपत्ररथश्चापि हिरण्यगर्भहंसगौ ।विरिञ्चश्च विरिञ्चिर्वै विरञ्चिश्चापि विश्वसृट् ॥ २७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्य (wrong syllable)
genderपुंmasc.
परमेष्ठी सुरज्येष्ठः स्रष्टा स्याद्गुणसागरः ।विधाता द्रुहिणो वेधा विरिञ्चिश्चतुराननः ॥
अनुष्टुप्
genderपुंmasc.
धेनुकारिः सोमसिन्धुर्विरिञ्चिर्धरणीधरः ।बहुमूर्धा बर्धमानः शतानन्दः वृषान्तकः ॥
अनुष्टुप्
genderपुंmasc.
विधा वेधाश्च द्वौ सान्तौ सर्वविद्-विदुषोरपि ।विरिञ्चन-विरिञ्ची च विरिञ्चः परमेष्ठियुक् ॥ ८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
genderपुंmasc.
ब्रह्मा विश्वसृडात्मभूः शतधृतिर्धाता विधाता विधि-र्वेधा हंसरथो विरिञ्चिरमरज्येष्ठो विरिञ्चोऽब्जभूः ।वागीशश्चतुराननः सरसिजावासः स्वयंभूरजःकः स्रष्टा द्रुहिणः प्रजापतिशतानन्दौ स्वभूर्नाभिजः ॥ १० ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
विरिञ्चो द्रुघणः संजो विरिञ्चिर्द्रुहिणो मतः ॥ ५ ॥
genderपुंmasc.
विरिञ्चि as a meaning in nānārtha verses
- कोषकल्पतरु धधः स्याद्विरिञ्चौ वदने तु बन्धे वान्ते मतौ धीर्धुरपीह केतौ । धूरश्वमातर्यपि चित्रके च धूर्ते तु लिङ्गं भजते परस्य । Koṣakalpataru 6.20.1
- नानार्थार्णवसंक्षेप ध्रुवधीवरीत्याह ना तु स्याद् ध्रुवः शम्भुविरिञ्चयोः । औत्तानपादौ कीलेऽथ त्रिर्नित्ये निश्चले स्फुटे ॥ ६४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.649
- नानार्थार्णवसंक्षेप वेधस्कश्चित् सर्वविदि स्माह ना तु विष्णुविरिञ्चयोः । देशेऽप्यन्येऽथ शङ्खोऽस्त्री ललाटात्थिगमर्मणोः ॥ १३०१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1301
- नानार्थार्णवसंक्षेप स्रष्टृवनस्पतौ विद्युति च कश्चिद्वणिजि तु द्वयोः । स्रष्टा तु सृष्टिकृन्मात्रे त्रिर्ना हरिविरिञ्चयोः ॥ १४७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1472
- नानार्थार्णवसंक्षेप द्रुहिणदुर्गते दुष्कृतं तु क्ली पापे त्रिस्त्वशुभं कृते । द्रुहिणस्तु नृलिङ्गः स्याद् वासुदेवविरिञ्चयोः ॥ ९४१ ॥ Nānārthārṇavasaṃkṣepa 4.941
- शब्दरत्नावली कञ्जऊर्ज उत्साहबलयोः प्राणने कार्त्तिकेऽपि च । कज्जं सुधापङ्कजयोः कञ्जः केशविरिञ्चयोः ॥ Śabdaratnāvalī 7.8.4
- शब्दरत्नावली पितामहपितामहः पितुस्ताने विरिञ्चावपि पुंस्ययम् । Śabdaratnāvalī 7.33.33