कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सुरज्येष्ठ

surajyeṣṭhaपुं · masc.

In 9 kośas: 9 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.213 · p. 13
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.17
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.6 · p. 2
ब्रह्मा स्रष्टा परमेष्ठी धाता पद्मभूः सुरज्येष्ठः ।वेधा विधिर्विरिञ्चो हिरण्यगर्भः शतानन्दः ॥ ६ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.56 · p. 13
ब्रह्माब्जात-सरोजसंभव-सुरज्येष्ठात्मभू-नाभिजाःशुभ्रि-स्रष्टृ-हिरण्यगर्भ[10a]विधिकाः शम्भू-स्वयंभू-भुवः ।लोकेशश्चतुराननः शतधृति-र्धाता-विधाता कविश्-चित्राटीर-विरञ्चि-हंसगमनाः सत्वाज-पद्मासनाः ॥ ५६ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.26 · p. 9
… सुरज्येष्ठो विरञ्चश्च भवान्तकृत् ।हिरण्यगर्भलोकेशौ विरञ्चिश्च शतधृतिः ॥ २६ ॥
metre not recognised
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.9 · p. 2
धाता विधाता लोकेशो विरञ्चिर्विश्वसृड्ध्रुवः ।सुरज्येष्ठः कमलभूः स्वयंभूर्नाभिभूरजः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.275 · p. 37
क्षेत्रज्ञश्चापि लोकेशः सुरज्येष्ठस्तथैव च ।अजोऽष्टश्रवणश्चेति सन्ति नामानि ब्रह्मणः ॥ २७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.23 · p. 3
परमेष्ठी सुरज्येष्ठः स्रष्टा स्याद्गुणसागरः ।विधाता द्रुहिणो वेधा विरिञ्चिश्चतुराननः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.7 · p. 3
हिरण्यगर्भो द्रुहिणो विरिञ्चः कश्चतुर्मुखः ।पद्मासनः सुरज्येष्ठश्चिरजीवी सनातनः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.

सुरज्येष्ठ as a meaning in nānārtha verses

  • शब्दरत्नावली हिरण्मयउद्गमे संयुगे संघे भवेत्समुदयः पुमान् । पुमान् युद्धे समूहे च समुदायश्च तादृशः ॥ विरोधोत्सेधयोः पुंसि समुच्छ्रय उदाहृतः । त्रिषु स्वर्णमये ना तु सुरज्येष्ठे हिरण्मयः ॥ Śabdaratnāvalī 7.26.58