कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चतुरानन

caturānanaपुं · masc.

In 7 kośas: 9 synonym verses, 1 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.17
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.3 · p. 66
अमरा मरुतो देवा निलिम्पास्त्रिदशाः सुराः ।ब्रह्मा विधाता लोकेशः स्वयंभूश्चतुराननः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.1 · p. 439
धाता सुरासुरगुरुपर्यायः प्रपितामहः ।चतुराननपर्यायो विरिञ्चिर्द्रुहिणो विधिः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.56 · p. 13
ब्रह्माब्जात-सरोजसंभव-सुरज्येष्ठात्मभू-नाभिजाःशुभ्रि-स्रष्टृ-हिरण्यगर्भ[10a]विधिकाः शम्भू-स्वयंभू-भुवः ।लोकेशश्चतुराननः शतधृति-र्धाता-विधाता कविश्-चित्राटीर-विरञ्चि-हंसगमनाः सत्वाज-पद्मासनाः ॥ ५६ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.23 · p. 3
परमेष्ठी सुरज्येष्ठः स्रष्टा स्याद्गुणसागरः ।विधाता द्रुहिणो वेधा विरिञ्चिश्चतुराननः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.10 · p. 2
ब्रह्मा विश्वसृडात्मभूः शतधृतिर्धाता विधाता विधि-र्वेधा हंसरथो विरिञ्चिरमरज्येष्ठो विरिञ्चोऽब्जभूः ।वागीशश्चतुराननः सरसिजावासः स्वयंभूरजःकः स्रष्टा द्रुहिणः प्रजापतिशतानन्दौ स्वभूर्नाभिजः ॥ १० ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.26 · p. 37
स्थिरो जयन्तो जयजः शूली च चतुराननः ।मणिबन्धगतो वामो ज-कारो जप(न)को मतः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
ज-श्चतुराननो वामः कूर्परश्च त्रिशूलिनः ।दीर्घबाहुश्च शाखाख्यो धातारश्च विभुस्तथा ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तु (wrong syllable)
genderपुंmasc.
सदाशिवः स्थिरा शूली जयन्तश्चतुराननः ।जनको जयजो वाममणिबन्धगतो ज-कः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.

चतुरानन as a meaning in nānārtha verses