कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रजापति

prajāpatiपुं · masc.

In 19 kośas: 21 synonym verses, 8 as a nānārtha head word, 20 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.213 · p. 13
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.17
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.7 · p. 2
शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः ।पितामहो जगत्कर्ता विरञ्चिः कमलासनः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.421 · p. 48
राजा राजन्यो राट् प्रजापतिः क्षत्रियो नृपः क्षत्त्रम् ।मूर्धाभिषिक्तभूपतिपार्थिवनरदेवलोकपालाः स्युः ॥ ४२१ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.6 · p. 436
विवस्वांस्तरलो भास्वानम्बरीषः प्रजापतिः ।मन्थः किशोरः कुतपो वासन्तः पुष्करः कपिः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.2 · p. 439
स्रष्टा प्रजापतिर्वेधा विधाता कमलासनः ।स्वभूः कञ्जोऽब्जपर्याययोन्यर्थः सर्वतोमुखः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.59 · p. 14
प्रजापतिर्जगत्कर्त्ता धिषणश्चिषुणः सनात् ।अजातौ त्वथ कुब्रह्मा कुब्रह्मः कुत्सिते विधौ ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 73 · p. 36
हिरण्यगर्भः स्रष्टा च प्रजापतिः सहस्रपात् ।ब्रह्मात्मभूरनन्तात्मा कः तत्पुत्रोऽथ नारदः ॥ ७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 114 · p. 57
वर्षीयान् वृषभो ज्यायान् पुरुराद्यः प्रजापतिः ।ऐक्ष्वाकुः(कः) काश्यपो ब्रह्मा गौतमो नाभिजोऽग्रजः ॥ ११४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.23 · p. 8
ब्रह्मा प्रजापतिर्धाता विधाता विधिवेधसौ ।द्रुघणाजौ शतानन्दस्थविरौ कमनः कविः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.86 · p. 12
उशीरः सुषिरो धूमकेतुर्यज्ञश्च पिङ्गलः ।वामनो दहनश्चिन्त्यः कामारिश्च प्रजापतिः ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.112 · p. 15
ग्रहः पतंगः स्वर्भानुराशी(शि?)रश्च प्रजापतिः ।ग्रहराजश्चित्रभानुर्गरीरङ्कुश्च पुष्पवान् ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.397 · p. 28
बलभद्रः प्रलम्बारिर्बलदेवोऽच्युताग्रजः ।आत्मभूः सृष्टिकृद्ब्रह्मा चतुर्वक्त्रः प्रजापतिः ॥ ३९७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.10 · p. 34
वरुणः सारथिः स्वामी नदीनाथः प्रजापतिः ।समुद्रवल्लभः शंभुः पाशभृत्सर्वतोमुखः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.24 · p. 36
शम्भुः स्वयंभूर्विश्वात्मा लोकपालस्त्रिलोकभृत् ।सत्यावासः सुरानन्दो रुक्मगर्भः प्रजापतिः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.8 · p. 2
ब्रह्मा प्रजापतिः स्रष्टा विधिर्वेधाः पितामहः ।हिरण्यगर्भो द्रुहिणः परमेष्ठी चतुर्मुखः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.8 · p. 35
प्रजापतिः क्षितिपतिर्नरदेवो नराधिपः ।भूपः क्षितीशो भूपालः क्षोणीनाथो नरेश्वरः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.270 · p. 36
ब्रह्मा चतुर्मुखः शम्भुः स्रष्टा शतधृतिर्ध्रुवः ।विश्वरेताः जगत्कर्ता पितामहः प्रजापतिः ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.22 · p. 3
ब्रह्मा स्वयम्भुर्लोकेशो देवदेवः प्रजापतिः ।धाता हिरण्यगर्भः स्यात् पद्मगर्भः पितामहः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.10 · p. 2
ब्रह्मा विश्वसृडात्मभूः शतधृतिर्धाता विधाता विधि-र्वेधा हंसरथो विरिञ्चिरमरज्येष्ठो विरिञ्चोऽब्जभूः ।वागीशश्चतुराननः सरसिजावासः स्वयंभूरजःकः स्रष्टा द्रुहिणः प्रजापतिशतानन्दौ स्वभूर्नाभिजः ॥ १० ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.6 · p. 3
आजानजाः स्वतोदेवाः कर्मदेवास्तु कर्मभिः ।ब्रह्मा विधाता विश्वात्मा घाता स्रष्टा प्रजापतिः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.28 · p. 65
धनपती कुबेराढ्यौ वृषपती वृषेश्वरौ ।हिमाराती रविर्वह्निः प्रजापतिर्नृपो विधिः ॥
metre not recognised
कोषकल्पतरु Koṣakalpataru · विश्वनाथ चतुरक्षरतान्ताः । Koṣakalpataru 6.17.71 · p. 228
अर्थपतिर्धननाथे तथेश्वरे गृहपतिर्गृहिणि ।सत्रिणि चाग्न्याधाने प्रजापतिरुक्तो नृपे द्रुहिणे ॥ ७१ ॥
उपगीतिःmetre not read in every line
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.322 · p. 202
परपुष्टा वारयोषा परपुष्टः पिके स्मृतः ।प्रजापती रवौ सूर्यवेधसोः पाचके नृपे ॥ ३२२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.168 · p. 225
परिस्तुता स्याद्वारुण्यां स्त्रियां स्यन्देऽभिधेयवत् ।पञ्चगुप्तः कच्छपे स्याच्चार्वाकदर्शने पुमान् ॥प्रजापतिर्ना भूपाले दक्षादौ च विधातरि ।प्रतिपत्तिश्च संप्राप्तौ प्रबोधे गोरवेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2219 · p. 268
आदाने पृतनापृष्ठे पतद्ग्राहे प्रतिग्रहः ।प्रजापतिर्मरीच्यादौ परमेष्ठिनि पार्थिवे ॥ २२१९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.167 · p. 148
पलितं कर्दमेऽपि स्याद्विधौ भूपे प्रजापतिः ।शक्ते निवारणे वृत्तौ पर्याप्तं स्याद्यथेप्सिते ॥ १६७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.34 · p. 267
प्रतिग्रहः क्रियाकारे चमूपृष्ठे पतद्ग्रहे ।दानद्रव्ये स्वीकृतौ च त्वष्टर्यर्के प्रजापतिः ॥ ३४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 8.1.35 · p. 267
दक्षादिष्वग्निजामात्रो राज्ञि ब्रह्मणि धातरि ।ब्रह्मपुत्रस्तु रुद्रेऽपि बाहुलेयो गुहे वृषे ॥ ३५ ॥
अनुष्टुप्
doubtful

प्रजापति as a meaning in nānārtha verses