कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्रष्टृ

sraṣṭṛपुं · masc.

In 13 kośas: 15 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.213 · p. 13
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.17
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.6 · p. 2
ब्रह्मा स्रष्टा परमेष्ठी धाता पद्मभूः सुरज्येष्ठः ।वेधा विधिर्विरिञ्चो हिरण्यगर्भः शतानन्दः ॥ ६ ॥
metre not recognised
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.12 · p. 2
स्थाणुः स्रष्टा धूर्जटिर्वामदेवः,कामध्वंसी व्योमकेशः कपाली ।नीलग्रीवो वह्निरेताः पिनाकी,भीमो भर्गः कृत्तिवासा वृषाङ्कः ॥ १२ ॥
शालिनी
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.364 · p. 60
स्रष्टा विद्वान्विधिरथ विषवैद्यस्तु जाङ्गली ।कथाप्रसङ्गः क्लिन्नाक्षे चुल्लश्चिल्लश्च पिल्लकः ॥ ३६४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.2 · p. 439
स्रष्टा प्रजापतिर्वेधा विधाता कमलासनः ।स्वभूः कञ्जोऽब्जपर्याययोन्यर्थः सर्वतोमुखः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.56 · p. 13
ब्रह्माब्जात-सरोजसंभव-सुरज्येष्ठात्मभू-नाभिजाःशुभ्रि-स्रष्टृ-हिरण्यगर्भ[10a]विधिकाः शम्भू-स्वयंभू-भुवः ।लोकेशश्चतुराननः शतधृति-र्धाता-विधाता कविश्-चित्राटीर-विरञ्चि-हंसगमनाः सत्वाज-पद्मासनाः ॥ ५६ ॥
शार्दूलविक्रीडितम्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.24 · p. 14
कृत्कर्ता कारकः स्रष्टा निर्माता च विधातरि ।ग्रहीता ग्राहको ग्रा[167a]ही चेतयंश्चेतयः समौ ।वेदयन्वेदयस्तद्वत्सातयन्सातयस्तथा ॥ २४ ॥
अनुष्टुप्metre not read in every line
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 73 · p. 36
हिरण्यगर्भः स्रष्टा च प्रजापतिः सहस्रपात् ।ब्रह्मात्मभूरनन्तात्मा कः तत्पुत्रोऽथ नारदः ॥ ७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.398 · p. 28
हिरण्यगर्भो द्रुहिणो विरञ्चिः सुरपूर्वजः ।अजः पितामहः स्रष्टा पद्मयोनिः श्रुतीक्षकः ।सावित्री वेदजननी गायत्री ब्रह्मवल्लभा ॥ ३९८ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.8 · p. 2
ब्रह्मा प्रजापतिः स्रष्टा विधिर्वेधाः पितामहः ।हिरण्यगर्भो द्रुहिणः परमेष्ठी चतुर्मुखः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.270 · p. 36
ब्रह्मा चतुर्मुखः शम्भुः स्रष्टा शतधृतिर्ध्रुवः ।विश्वरेताः जगत्कर्ता पितामहः प्रजापतिः ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.23 · p. 3
परमेष्ठी सुरज्येष्ठः स्रष्टा स्याद्गुणसागरः ।विधाता द्रुहिणो वेधा विरिञ्चिश्चतुराननः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.10 · p. 2
ब्रह्मा विश्वसृडात्मभूः शतधृतिर्धाता विधाता विधि-र्वेधा हंसरथो विरिञ्चिरमरज्येष्ठो विरिञ्चोऽब्जभूः ।वागीशश्चतुराननः सरसिजावासः स्वयंभूरजःकः स्रष्टा द्रुहिणः प्रजापतिशतानन्दौ स्वभूर्नाभिजः ॥ १० ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.6 · p. 3
आजानजाः स्वतोदेवाः कर्मदेवास्तु कर्मभिः ।ब्रह्मा विधाता विश्वात्मा घाता स्रष्टा प्रजापतिः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1472 · p. 168
वनस्पतौ विद्युति च कश्चिद्वणिजि तु द्वयोः ।स्रष्टा तु सृष्टिकृन्मात्रे त्रिर्ना हरिविरिञ्चयोः ॥ १४७२ ॥
अनुष्टुप्

स्रष्टृ as a meaning in nānārtha verses