कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धरुण

dharuṇaपुं · masc.

In 5 kośas: 5 synonym verses, 2 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.10 · p. 344
जीवनं भुवनं यादः पावनं क्षणदं दकम् ।अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.4 · p. 436
घृणिः पीथः प्रतिदिवाऽहर्नटो धरुणोऽपि च ।खद्योतो वरुणः शूरो विश्वप्साः पद्मलाञ्छनः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.58 · p. 14
परमेष्ठि-शतानन्द-विश्वसृड्विश्वरेतसः ।सात्विको लाभभूरिष्णुर्धरुणः प्रपितामहः ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1774 · p. 215
कक्षीवन्मुष्कव[च्चक्षु]र्विश्वकर्मदुवस्यवः ।सोमाहुतिश्चित्रमहा वसुकृद्धरुणो द्वितः ॥ १७७४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 8.3.18 · p. 274
स्नेहं सेव्यं महच्छुद्धं धरुणं सर्वतोमुखम् ।पातालं स्वादु दिव्यं च तानि पंचदशाप्स्वपि ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.40 · p. 210
धरणं स्यान्मानभेदे धारणे धरणी भुवि ।धरुणः सम्मते स्वर्गे सलिले च पितामहे ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.32 · p. 241
द्रुहिणौ हरिधातारौ शास्त्रोदाहरणयोस्तु दृष्टान्तः ।दोषज्ञौ बुधभिषजौ धरुणाः स्तनधातृलोकार्काः ॥ ३२ ॥
आर्या