तुला
tulāस्त्री · fem.In 18 kośas: 32 synonym verses, 10 as a nānārtha head word, 4 as a meaning of another word.
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderस्त्रीfem.
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderस्त्रीfem.
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।आचितो दश भाराः स्युः शाकटो भार आचितः ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
वणिक् तुला वाणिजश्च वृश्चिकोऽलिसरीसृपः ।चापो धनुश्च धनुषो कोदण्डकार्मुकोऽपि च ॥ ३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ण्ड (wrong syllable)
genderस्त्रीfem.
राशयश्चरसंज्ञोक्ता मृगाजतुलकर्कटा ॥ १०६ ॥
genderस्त्रीfem.
तुलामिथुनसंज्ञाश्च कोदण्डाद्यं दलं नराः ।नक्रस्यान्त्यदलं मीनो घटश्चजलराशयः ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
अजवृषमृगावालाकर्कमीनतुलाधिपाः ॥ १२० ॥
genderस्त्रीfem.
तुलालिकर्कमीनेषु मृगकन्याक्रियेषु च ॥ १२१ ॥
genderस्त्रीfem.
चापस्त्रिकोणपञ्चांशाः स्वक्षेत्रं चापरं गुरोः ।शुक्रस्त्रिकोणतिथ्यंशास्तुलायां स्वालयं ततः ॥ १२७ ॥
अनुष्टुप्
genderस्त्रीfem.
तुला हिरण्यगर्भश्च ब्रह्माण्डं कल्पपादयः ।गोसहस्रं स्वर्णकामधेनुः स्वर्णाश्व एव च ॥ १०२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुवर्णाक्षे स्वर्णविस्तं कुरुविस्तं तु तत्पले ।तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ॥ ५२३ ॥
अनुष्टुप्
genderस्त्रीfem.
कर्पासी वदरी वर्च्या समुद्रान्ता मरूद्भवा ।तुला पिचुर्गुडोऽपि स्याद्वादरस्तुण्डकेरिका ॥ ५२६ ॥
अनुष्टुप्
genderस्त्रीfem.
ग्रहावर्त्तद्वादशोंशो राशिः पुंस्यथ ते क्रमात् ।मेषो वृषश्च मिथुनं क्लीबे कन्यातुले स्त्रियौ ॥ २२५ ॥
अनुष्टुप्
genderस्त्रीfem.
संपत्संवदव्यये द्वे मकरः कर्कटोऽयने ।तुलामेषौ तु विषुवत् विशुवद्द्वे नपुंसके ॥ ७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
genderपुंmasc.
जूकस्तुलाथ कौर्पी वृश्चिकनामाऽश्वितौ क्षिकौ धनुषि ।आकोकेरो मकरो मृगोऽथ हृद्द्रुग्घटोऽथ मीनोऽन्त्यः ॥ १०८ ॥
गीतिः
genderस्त्रीfem.
क्रे[138b]यादयोऽन्यलिङ्गाः स्युर्विपणो विक्रयः समौ ।तुला तु तोलनामत्रं पात्रं पाण-धटौ समौ ॥ ७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
शूर्पाभ्यां तु भवेद्द्रोणी गोणी स्त्री च वहो नरि ।गोणीभिः पञ्चभिः क्रीते पञ्चगोणिर्विशेष्यवत् ॥द्रोण्यश्चतस्रः खारी स्यात्पलानां तु शतं तुला ।ऊर्णापलशते तु स्यात्कम्बलं मिथुने न तत् ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
कक्षा तुला चोपमा स्यादुपमानं तु न स्त्रियाम् ॥ ३३ ॥
genderस्त्रीfem.
एषां प्रयोगः पुंसि गदितः कथितः । राशिर्धान्यादीनाम् । पलाण्डुर्लसुनजातिः । कमण्डलुः काष्ठमयं जलपात्रम् । गडुः कुब्जम् । तूलः कार्पासादेः । मुहूर्त्तो द्वादशात्मकः । परशुर्वृक्षभेदी । शङ्कुः चिह्नं किलश्च । दृतिश्चर्म । अयं सीधुः सुरा । अयं कङ्कटो हस्तिकवचम् ।शालामालादोलावेलाफेलाशिलातुलालीला-सेनापालिबलिदद्रुवागुराश्च स्त्रियामुदिताः ॥ ३६ ॥
metre not recognised
genderस्त्रीfem.
कपोतवर्णिका तुच्छा कोरङ्गी बहुला तुला ।स्थूलैलायां बृहदेला पत्रैला त्वक्सुगन्धिका ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
genderस्त्रीfem.
समः सवर्णः सज्ञातिः सदृक्षः सदृशः सदृक् ।तुल्यः सधर्मरूपश्च तुला कक्षोपमा विधा ॥ १३६ ॥
अनुष्टुप्
genderस्त्रीfem.
गुञ्जा स्यात्पञ्चभिर्माषैः कर्षः षोडशमाषकैः ।पलं कर्षचतुष्केन तुला पलशतं मतम् ॥ ४११ ॥
अनुष्टुप्
genderस्त्रीfem.
समानं सदृशं xx संकाशः संनिभः समः ।अनुहारश्चोपमानं समकक्षा तुलोपमा ॥ १०१ ॥
metre not recognisedLatin letters: xx
genderस्त्रीfem.
राशीनामुदयो लग्नं स च मेषो वृषस्तथा ।मिथुनः कर्कटः सिंहः कन्या तुला च वृश्चिकः ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderस्त्रीfem.
तुला पलशतं ज्ञेयं सुवर्णादिकमापने ।शलाट आचितो भारः शाकटीनश्च शाकटः ॥ १४८६ ॥
अनुष्टुप्
genderस्त्रीfem.
औपम्यमुपमानमुपमितिस्तथोपमा ।अनुकारोऽनुहारश्च साम्यं कक्षा तथा तुला ॥ २६५९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
मेषो वृषश्च मिथुनं कर्कटः सिंह एव च ।कन्या तुला वृश्चिकश्च धनुर्मकर इत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
अथ काष्ठाम्बुवाहिन्यां द्रोणी द्रोणिर्द्रुणिर्द्रुनिः ।पादारकश्च पोलिन्दः पत्रबालस्तुला धटः ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात् सुवर्णपले ज्ञेयं कुरुविस्तं नपुंसकम् ।स्त्रियां तुला पलशते स्याद्भारः विंशतिस्तुलाः ॥
अनुष्टुप्
genderस्त्रीfem.
सन्धिः पञ्चालिका फेरेहद्दव्या (?) परेष्टुका ।रातिः शाली तुलामस्त्रालट्टाहोरा च कर्तरी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
तुला पलशतं ताभिर्विंशत्या भार एव तैः ।आचितः पुंसि दशभिः शाकटो भार आचितः ॥ १४९८ ॥
अनुष्टुप्
genderस्त्रीfem.
दशान्येषां शतं मानं सार्धै रूप्यपलैस्त्रिभिः ।तुला पलशतं तास्तु दशर्क्षं धटिकोऽस्त्रियाम् ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
पीठ्यां गृहाणामपि दारुबन्धेवेलाब्धितीरेऽम्बुविकारके च ।अक्लिष्टमृत्यौ समये च सीम्निबुधस्त्रियां वाचि तथा च रागे ॥ ८२ ॥
उपजातिः
doubtful
तरुभेदेऽप्यथ तुला सादृश्योन्मानदण्डयोः ।स्तम्भपीठे पलशते तथा राशौ च सप्तमे ॥ ४४ ॥
अनुष्टुप्
खस्याभ्रके ब्रह्मणि च मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ ९ ॥
अनुष्टुप्
meanings
तुला माने च सादृश्ये भाण्डराशिप्रभेदयोः ।तूली प(?) ब्रह्मदारुवियत्सु च नपुंसकम्(?) ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
संख्याभेदेऽपि शंखस्य मीनमेषविषाणिनाम् ।मिथुनस्य कुलीरस्य सिंहकन्यातुलालिनाम् ॥ १४ ॥
अनुष्टुप्
meanings
तुला as a meaning in nānārtha verses
- धरणिकोश एषणीएषणी व्रणमार्गानुसारिणी वणिजां तुला । क्षेपणी जालभेदे स्यान्नौकादण्डे च कीर्तिता ॥ Dharaṇikośa 14.2.10
- कोषकल्पतरु धटधटं तुलापरीक्षणे पटिः पटद्रुभेदयोः । नटस्तु नर्तकेऽरलौ नरि नटस्त्रियां नटी ॥ २१ ॥ Koṣakalpataru 6.10.21
- शब्दरत्नावली घटअथ दृष्टिर्मनीषायां दर्शने नयनेऽपि च । घटो दिवा तुलायां ना खण्डवस्त्रे घटी स्त्रियाम् ॥ Śabdaratnāvalī 7.11.20
- तन्त्राभिधान कवर्गाद्यश्च मु(सु)खं ब्रह्मा सखाम्भोधिः शिरो(वो) जलम् । माहेश्वरी तुला पुष्पं(ष्पा) मङ्गलश्चरणं करः ॥ ५८ ॥ Tantrābhidhāna 2.18.58