कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लघु

laghuवि · adj.

In 24 kośas: 47 synonym verses, 13 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1427 · p. 54
त्रुटौ मात्रा लवो लेशः कणो ह्रस्वं पुनर्लघु ॥ १४२७ ॥
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1470 · p. 55
त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु ।चपलाविलम्बिते च झम्पा संपातपाटवम् ॥ १४७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 वि (wrong syllable)
genderविadj.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र मर्त्यकाण्डः Abhidhānacintāmaṇipariśiṣṭa 3.129 · p. 5
अगरौ प्रवरं शृङ्गं शीर्षकं मृदुलं लघु ।वरद्रुमः परमदः प्रकरं गन्धदारु च ॥ १२९ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.46
शरीरस्था इमे रंहस्तरसी तु रयः स्यदः ।जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥सत्वरं चपलं तूर्णमविलम्बितमाशु च ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.133
मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः ।समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.697 · p. 81
द्राक् चपलं लघु मङ्क्षु स्राक् तूर्णं त्वरितमाशु शीघ्रमरम् ।अह्नाय सत्वरं च क्षिप्रं द्रुतमञ्जसा झटिति ॥ ६९७ ॥
आर्या
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.253 · p. 89
कषायो नागवाक् पूगः फले पर्कटमित्यपि ।पक्वे लघुः खरं शुष्के चिक्कणचिक्कणेऽपि च ॥ २५३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.30 · p. 24
तत्फले कोहलं पुष्पं रामाङ्कोऽनुफलो लघुः ।तत्फले गुडबीजं स्यात्पटोले कर्कशः पटुः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.87 · p. 29
ज्यायानप्यग्रजोऽग्र्यः स्यादग्रीयोऽथ जघन्यजः ।कनिष्ठश्च यविष्ठश्च कनीयाननुजो लघुः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.362 · p. 60
अनामयमथोल्लाघः पटुः कल्पो निरामयः ।अग्लास्नुरगदो नीरुगनातङ्को लघुः पुनः ॥ ३६२ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.55 · p. 138
वृषाकरो धान्यवीरः कुरुविन्दोऽपि मांसलः ।पित्र्यो बलाढ्यः काचराजपदात् माषो परो लघुः ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.117 · p. 330
कुलवारी लघुश्चित्रवर्णश्चित्राङ्गदोऽप्यथ ।मद्गुस्तु जलकाकः स्यादथान्या जलकुक्कुटी ॥ ११७ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.16 · p. 381
जवोऽथ शीघ्रं त्वरिं लघु क्लीबेऽरमव्ययम् ।क्षिप्रं द्रुतं सत्वरं च चपलं तूर्णमाशु च ॥ १६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 घ्रं (syllables merged)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव अव्ययप्रकाण्डः Kalpadrukośa 3.4.3 · p. 458
तरसा सपदि क्षिप्रं त्वह्नाय झटिति द्रुतम् ।तूर्णं द्रागञ्जसा मक्षु स्राक् शीघ्रं लघु चित् चन ॥ ३ ॥
अनुष्टुप्
genderअindecl.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.164 · p. 24
क्लीबे तु रंहस्तरसी अथ शीघ्रं लघु द्रुतम् ।त्वरितं सत्वरमरं तूर्णमाश्वविलम्बितम् ॥ १६४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.97 · p. 167
पञ्चमुष्टिमरुन्माला समुद्रान्ता सुगन्धिका ।लघुः शुभा च मरुता नीलपुष्पी सुरात्मजा ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 185
दीर्घमूलं शान्तमूलमवदाहं जलाशयम् ।सुनालं स्याल्लघुलयं लयं लघु च तोयजम् ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.78 · p. 19
त्रुटिस्तुटिश्च मात्रा स्त्री ह्रस्वं तु लघु संस्मृतम् ।अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ७८ ॥
अनुष्टुप्
genderविadj.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.171 · p. 93
लङ्कोयिका कोटिवर्षा देवी पङ्कजमुष्टिका ।गोमी स्वर्णलतेन्द्राणी मरुन्माला लता लघुः ॥ १७१ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.385 · p. 206
लामज्जके तु नलदममृणालं लयं लघु ।इष्टकापथकं शीघ्रं दीर्घमूलं जलाशयम् ॥ ३८५ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 172 · p. 83
क्षिप्राशुमङ्क्ष्वरं शीघ्रं सहसा झटिति द्रुतम् ।तूर्णं जवः स्यदो रंहो रयो वेगस्तरो लघुः ॥ १७२ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.317 · p. 91
कणे लेशलवौ तुल्यौ ह्रस्वे चापि लघु स्मृतम् ।अतिस्तोके तथाल्पिष्ठमल्पीयोऽणीय इत्यपि ॥ ३१७ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.352 · p. 95
शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु ।अनारतानिशे नित्याजस्त्रे त्वविरतं पुनः ॥ ३५२ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.259 · p. 18
मसूरो मृदुलो वाती मुद्गो हव्योऽज्ञभूर्लघुः ।आढकी वातकी धन्या मारीचश्चणकः पुटी ॥ २५९ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संगीतवर्गः Śāradīyākhyanāmamālā 2.3.112 · p. 30
मभजासानयरता गणा अष्ट लघुर्गुरु ।एकं द्विचतुःषट्स्वरैर्द्रुतो लघुर्गुरुः प्लुतः ॥ ११२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.90 · p. 43
अणु सूक्ष्मं लघु श्लक्ष्णं क्षामः क्षीणः कृशस्तनु ।बंहिष्ठं प्रचुरं प्राज्यं पुष्कलं बहुलं बहु ॥ ९० ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.106 · p. 45
त्वरितं सत्वरं शीघ्रं तूर्णं क्षिप्रं द्रुतं लघु ।जवो वेगो रयो रंहस्तरो मन्दे तु मन्थरः ॥ १०६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1034 · p. 159
अनार्यजं च राजार्हं कृमिजं च वरद्रुमः ।प्रकरं प्रवरं गन्धदारु च मृदुलं लघु ॥ १०३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 रु (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.138 · p. 418
ह्रस्वं लघु च प्रख्यातं लघुकार्ये प्रयुज्यते ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2672 · p. 431
शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु ।आशुमङ्क्षु तथाऽह्नायश्चपलमविलम्बितम् ॥ २६७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 प (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.154 · p. 11
शीघ्रं तूर्णं द्रुतं क्षिप्रं चपलं लघु सत्वरम् ।अरं त्वरितमाशु स्यादविलम्बितमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.439 · p. 31
स एष तालो विज्ञेयो धीरैरनुद्रुतादिभिः ।अनुद्रुतं द्रुतञ्चैव लघुर्गुरुः प्लुतस्तथा ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 र्गु (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.440 · p. 31
अर्धमात्रं द्रुतं ज्ञेयं द्रुतार्धञ्चाप्पनुद्रुतम् ।एकमात्रो लघुः प्रोक्तः द्विमात्रस्तु गुरुः स्मृतः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.244 · p. 76
पृक्का दैवीलता पृक्का समुद्रान्ता लघुर्वधूः ।कोटीवर्षा कोटिवर्षा मरुन्माला लता मरुत् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.196 · p. 234
आस्फोता स्यादास्फोटा च वीरणीमूल आदृतम् ।औशीरमुषिरमुशिग् जान्तो लघुलयं लघु ॥ १९६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable); pāda 3, syllable 4 मु (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.130 · p. 17
समे तु रंहस्तरसी जवो वेगो रयः स्यदः ।द्रुतं तूर्णं लघु क्षिप्रमरमाश्वविलम्बितम् ॥ १३० ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1148 · p. 141
वंशक वंशिकं काकतुण्डं लघु च जाङ्गलम् ।कालागर्वथ तदगरु मङ्गल्यं यत्तु मल्लिगन्धि स्यात् ॥ ११४८ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1476 · p. 178
ऋद्धिराश्वासना सिद्धिर्जीवनी चेतना लघुः ।प्राणदा बोधना लक्ष्मीः सुवृद्धिस्तु तदर्थकाः(थिका?) ।रोमाह्वया लता रोमा तरुणी बस्तगन्धिका ॥ १४७६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 131 · p. 537
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.2 · p. 41
मातृकाद्यः स्वराद्यश्च श्रीकण्ठः केशवो लघुः ।कलाद्यः केशवः कृष्णो भूतेशः प्रथमो भवेत् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
स्वराद्यो मातृकाद्यश्च वातः कण्ठोऽमृतेश्वरः ।विश्वेश्वरो निवृत्तिश्च श्रीकण्ठः केशवो लघुः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
उपान्त्यो गणपालश्च शिवेशो विमलो लघुः ।हृदयान्नाभिगो जीवोऽसिता चैव ळ-कारकः ॥ ५२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.53 · p. 49
गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः ।श्रीमान् स्निग्धः सर्वसहः श्लेष्मी तिक्तः कटुर्लघुः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.116 · p. 54
अजशृंग्यां विषाणी स्याद्रोजिह्वादार्विके समे ।शंखिनी चोरपुष्पी स्यात् केशिनी चाप्यथो लघुः ॥ ११६ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.107 · p. 131
लोहाख्यं कृमिजं भृंगं जोंगकं जांगलं मतम् ।वंशकं वंशिकं शीर्षं प्रकरं मृदुलं लघु ॥ १०७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.76 · p. 207
जघन्यं तु कुपूयं स्यादसारं लघु फल्गु च ।पुंस्यादिराद्यपौरस्त्यप्रथमप्रमुखादिमाः ॥ ७६ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.124 · p. 211
अरालं कुटिलं भुग्नमवक्रे प्रगुणोऽप्यृजुः ।सत्वरं त्वरितं तूर्णमरं क्षिप्रं लघु द्रुतम् ॥ १२४ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.55
त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास घार्धश्लोकः Dharaṇikośa 4.2.2 · p. 27
अघमंहसि दुःखे च व्यसनेऽप्यघमुच्यते ।लघुः शोभननिःसारशीघ्रपृक्का[गुरुष्वपि ?] ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ घान्ताः Koṣakalpataru 6.4.33 · p. 169
ओघोऽम्बुवेगद्रुतनृत्यशिक्षा-परंपरासंहतिषु प्रयुक्तः ।मेघो[ऽथ]पाथोधरमुस्तकार्थोऽथाल्पे मनोज्ञे च लघुस्त्रिलिङ्गः ॥ ३३ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ घान्ताः Koṣakalpataru 6.4.34 · p. 169
शीघ्रे च कृष्णागुरुणि द्वयोनःस्पृक्कागतः स्त्री वपुषस्तु वायौ ।अङ्घोंऽहसि स्यात्करसंपुटे चमोघस्तु दीने त्रिषु निःफले च ॥ ३४ ॥
इन्द्रवज्रा
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1133 · p. 139
नृस्त्रियोर्लम्बने स्त्री तु लम्बोत्कोचे परः पुनः ।आह भूमिविशेषेऽथ लघु निस्सारशीघ्रयोः ॥ ११३३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1134 · p. 139
त्रिगुरुप्रतिपक्षे च स्यादिष्टेऽल्पमनोज्ञयोः ।एकमात्रस्वरे चैषु स्त्र्यर्थे लध्वी लधुस्तथा ॥ ११३४ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1135 · p. 140
क्लीबं त्वगुरुसंज्ञाकगन्धद्रव्येऽप्युशीरके ।गुग्गुलौ तु पुमान् स्त्री तु स्पृक्कायां लघुरेव सा ॥ ११३५ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र घद्विः Śivakoṣa 4.1.97 · p. 9
लघु लोहे चलामज्जे स्पृक्कायां तु लघुः स्त्रियाम् ॥ ९७ ॥
शब्दरत्नावली Śabdaratnāvalī · मथुरेश घान्ताः Śabdaratnāvalī 7.4.5 · p. 195
लघुर्मनोज्ञे निःसारे चागुरावपि वाच्यवत् ।कृष्णागुरुणि शीघ्रे च क्लीबं पृक्कौषधौ स्त्रियाम् ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1990 · p. 242
लवो लेशे नृपे च्छेदे लङ्का पूर्भेदचिह्नयोः ।लक्षं शरव्ये संख्यायां लघुस्त्रिषु मनोरमे ॥ १९९० ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1991 · p. 242
असार इष्टे क्षिप्रार्थेऽप्यगुरौ क्षुल्लकेऽपि च ।लीला क्रीडा विलासश्च लक्ष्म चिह्नवरिष्ठयोः ॥ १९९१ ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.73 · p. 116
परिघो योगभेदेऽपि मेधो वारिदमुस्तयोः ।महार्घस्तु महामूल्ये पुंसि लावकषक्षिणि ।पृक्कायां स्त्री लघुः क्लीबं शीघ्रे कृष्णागुरुण्यपि ॥ ७३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 6.4.15 · p. 229
न्याय्यलब्धव्ययोर्लभ्यं लिप्तो भक्षितदिग्धयोः ।लघु त्वसारागुरुणोरिष्टे क्षिप्रमनोज्ञयोः ॥ १५ ॥
अनुष्टुप्

लघु as a meaning in nānārtha verses