कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सह्य

sahyaक्ली · neut.

In 9 kośas: 8 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.474 · p. 22
जाङ्गुलिको विषभिषक्स्वास्थ्यं वार्तमनामयम् ।सह्यारोग्ये पटूल्लाघवार्तकल्यास्तु नीरुजि ॥ ४७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 लि (wrong syllable)
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.9 · p. 127
शैलभेदास्तु निषधो गन्धमादनमस्त्रियाम् ।ऋक्षः सह्यश्चित्रकूटो भाकूटोऽन्ये च भूरिशः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.11 · p. 128
महेन्द्र-शुक्ति-मलय-पारियात्रक-ऋक्षकाः ।सह्यो विन्ध्य इमे सप्त कुलशैलाः प्रकीर्तिताः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.99 · p. 315
चन्द्रोदयस्तु मकरध्वजनामा रसः स्मृतः ।स्वास्थ्यं त्वनामयं वार्तमारोग्यं सह्यमित्यपि ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.138 · p. 119
जाङ्गुलिकविषवैद्यौ तु ---------------- ।आरोग्यं सह्यवार्त्ते चानामयं स्वास्थ्यमेव च ॥ १३८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.333 · p. 102
स्वास्थ्यं सह्यं तथाऽऽरोग्यं वार्तं स्याच्चाप्यनामयम् ।
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.410 · p. 55
महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः ।विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ४१० ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव शैलवर्गः Trikāṇḍaśeṣa 2.3.4 · p. 35
महेन्द्रो मलयः सह्यः शुक्तिमान् गन्धमादनः ।विन्ध्यश्च पारियात्रश्च सप्तैते च कुलाचलाः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.9 · p. 151
सह्यं विख्यातमारोग्यं सह्यौ सोढव्यपर्वतौ ।पाक्यं विदुर्यवक्षारे विटाख्यलवणेऽपि च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.17 · p. 288
पत्न्यां तु भार्या नरि बाहुजे स्यात्सह्यस्तु शैले त्रिषु सोढुमर्हे ।गृह्यं पुरीषाध्वनि चास्वतन्त्रे-ऽन्यवत्स्वपक्षे च गृहोद्भवे च ॥ १७ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1449 · p. 166
अग्निभेदे पुमान् सह्यः पुनर्ना पर्वतान्तरे ।पश्चिमार्णवपार्श्वस्थे सोढव्ये तु त्रि नप् पुनः ॥ १४४९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास सकारादयः Paramānandīyanāmamālā 5.27.366 · p. 208
सह्यो राज्ञि गिरौ सह्यं सोढव्ये रोगवर्जिते ।साधुर्मुनौ तथार्ये च सोमः कर्पूरचन्द्रयोः ॥ ३६६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.34 · p. 260
सह्यः शैलान्तरे पुंसि सोढव्ये वाच्यलिङ्गकः ।आरोग्ये क्लीबलिङ्गं स्यात्साम्ये सुमधुरेऽपि च ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.324 · p. 204
ना शैले सह्यमारोग्ये सामर्थ्यं शक्तियोग्यते ।एकद्व्यादौ विचारे च सङ्ख्या क्लीबे च संयुगे ॥ ३२४ ॥
अनुष्टुप्

सह्य as a meaning in nānārtha verses