साम्य
sāmyaक्ली · neut.In 11 kośas: 8 synonym verses, 20 as a meaning of another word.
औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा ।कक्षोपमानमर्चा तु प्रतेर्मा यातना निधिः ॥ १४६३ ॥छाया छन्दः कायो रूपं बिम्बं मानकृती अपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderक्लीneut.
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ।तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
तालः कालक्रियामानं लयः साम्यमुदाहृतम् ।अङ्गहारोऽङ्गविक्षेपः सूच्योऽर्थोऽभिनयः स्मृतः ॥ ९४ ॥
अनुष्टुप्
genderक्लीneut.
अष्टवर्गो नृपस्यायमस्यैवापचयः क्षयः ।वृद्धिस्तु वर्द्धनं चैवं साम्यं स्यात्सोप्यं त्रिकः ॥ १०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
लयः साम्यं पुमस्तालः क्रियया कालसम्मितिः ।मुरजस्तु मृदङ्गोऽथ समावानकदुन्दुभी ॥ २०३ ॥
अनुष्टुप्
genderक्लीneut.
औपम्यमुपमानमुपमितिस्तथोपमा ।अनुकारोऽनुहारश्च साम्यं कक्षा तथा तुला ॥ २६५९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
एडमूकोऽनेडमूकः श्रोतुं वक्तुमशिक्षिते ।साम्यः सौम्यो हितप्राये दीर्घे तु व्यायतायतौ ॥
अनुष्टुप्
genderविadj.
तालो विलम्बितं कालो द्रुतं मध्यं क्रिया लयः ।ओघः साम्यं धनं तत्त्वं क्रियाथ भ्रमरी भ्रमः ॥ १५५३ ॥
अनुष्टुप्
genderक्लीneut.
साम्य as a meaning in nānārtha verses
- कल्पद्रुकोशः अवहृक्रीडावाङः परो भक्षानीत्योः स्यात्प्रलये समः । प्राप्तावङ्वेदनोः साम्येऽवान्निवृत्तौ परेस्तु सः ॥ ९७ ॥ Kalpadrukośa 1.10.97
- कोषकल्पतरु नि-काश्निरः पृथक्कृतौ काशिः प्रैषनिर्गमनेऽपि च । नितः साम्ये निश्चये च समोऽनुकरणेऽन्तिके ॥ ५९ ॥ Koṣakalpataru 3.5.59
- कोषकल्पतरु संतिष्ठतेजन्मनिर्बर्हणान्तेषु समश्चित्याकृतौ मतौ । संनिवेशेऽप्यवस्थाने साम्याधारे समापने ॥ ९४ ॥ Koṣakalpataru 3.5.94
- कोषकल्पतरु अनुकरोतिप्रत्याङो व्याजधिक्कृत्योरनोः साम्ये प्रतेः पुनः । प्रतिविधौ प्रतिसमः क्रमन्यासेऽवतोऽस्तुतौ ॥ ६० ॥ Koṣakalpataru 3.5.60
- कोषकल्पतरु उपशीवेद्यति स्यात्संविशति स्वप्ने साम्ये तु शीङुपात् । व्युपात्क्रमेण सुप्तौ स्याद्विमोहे तु स संपरः ॥ २४ ॥ Koṣakalpataru 3.5.24
- कोषकल्पतरु समितिसाम्ये सभायां समिती मृधेऽपि स्यात्संगमेऽथादितिरत्र भू[297a]मौ । द्युसज्जनन्यामथ पक्षतिः स्यात् पक्षस्य मूले प्रतिपत्तिथौ च । तार्क्ष्यस्त्रियां तून्नतिरुद्गतौ च वृद्धौ प्रसूतिस्तु सुतोद्भवादौ । पुत्र्यां च वल्ल्यां प्रततिस्ततौ च ॥ ३५ ॥ Koṣakalpataru 6.16.35
- कोषकल्पतरु स्पर्धाबाधा निषेधेऽपि च दुःख उक्ता सुधा तु मूर्वाविकसास्नुहीषु । विलेपवस्तुन्यमृतेऽथ संधा स्थितौ च संवि[8b]द्यथ लालसायाम् । श्रद्धातिभक्तौ क्रमतस्तु वृद्धौ स्पर्धापि संघर्षणसाम्ययोः स्यात् । मुग्धोऽन्यवत्सुन्दरमूढयोः स्या- द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥ Koṣakalpataru 6.20.64
- कोषकल्पतरु लयभयं तु घोरे कथितं च भीतौ कुब्जप्रसूनेऽथ मयस्तथोष्ट्रे । स्याद्दैत्यतक्ष्ण्यश्वतरे लयस्तु संश्लेषतौर्यत्रिकसाम्ययोश्च ॥ ४ ॥ Koṣakalpataru 6.26.4
- नानार्थार्णवसंक्षेप कक्ष्यातस्यामपि विभूतौ च कक्ष्या साम्यवरत्रयोः । कच्छाख्यगुह्यवस्त्रे च काञ्च्यां गेहप्रकोष्ठके ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 2.1.18
- नानार्थार्णवसंक्षेप धर्मज्ञेया पिङ्गलकेशादिकन्यायां सुरभावपि । धर्मोऽस्त्री सुकृते साम्ये स्वभावे लग्नराशितः ॥ ६२८ ॥ Nānārthārṇavasaṃkṣepa 2.5.628
- शब्दरत्नावली स्पर्धासन्धा स्थितौ प्रतिज्ञायां सन्धानेऽपि च कुत्रचित् । स्पर्धा क्रमोन्नतो साम्ये तथा संहर्षणे स्त्रियाम् ॥ Śabdaratnāvalī 7.19.16
- शब्दरत्नावली सह्यसह्यः शैलान्तरे पुंसि सोढव्ये वाच्यलिङ्गकः । आरोग्ये क्लीबलिङ्गं स्यात्साम्ये सुमधुरेऽपि च ॥ Śabdaratnāvalī 7.26.34
- शब्दरत्नावली औचित्यऔचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके । कषायः पुंसि निर्यासे रसभेदे विलेपने ॥ अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु । कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥ क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् । क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥ गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके । चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥ Śabdaratnāvalī 7.26.39
- शब्दरत्नाकर धर्मधर्मो न्याययमाचाराहिंसावैदिककर्मसु । साम्यस्वभावसुकृतेष्वस्त्री धर्मं तु कार्मुके ॥ १९४२ ॥ Śabdaratnākara 4.1.1942
- शब्दरत्नाकर तथातूष्णीमर्थे सुखे जोषं तर्हि स्यात् प्रश्न उत्तरे । तथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः ॥ २२६८ ॥ Śabdaratnākara 5.2.2268
- वैजयन्ती तुलातुला साम्ये स्तंभपीठे लेशसंशययोस्त्रुटिः । तूली शय्याकूर्चिकयोस्त्रेता त्वग्नित्रये युगे ॥ १७ ॥ Vaijayantī 6.2.17
- वैजयन्ती धर्मदृश्या स्यात् पृतना दृश्यं दर्शनीये विभूषणे । धर्मोऽस्त्री सुकृते साम्ये स्वभावे ना तु सोमपे ॥ ४२ ॥ Vaijayantī 6.5.42
- वैजयन्ती एवउपाधिकेऽन्तिके हीनेऽप्युत प्रश्नविकल्पयोः । समुच्चयेऽनुमत्यां चाप्येव साम्येऽवधारणे ॥ १८ ॥ Vaijayantī 8.7.18
- वैजयन्ती एवम्पादपूरणकृच्चायमेवं साम्याभ्यनुज्ञयोः । कच्चित् प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ १९ ॥ Vaijayantī 8.7.19
- वैजयन्ती तथातथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः । तिरोऽन्तर्धौ तिरश्चीने दिष्ट्या स्यान्मङ्गलादिषु ॥ २१ ॥ Vaijayantī 8.7.21