कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्वस्ति

svastiअ · indecl.

In 10 kośas: 3 synonym verses, 8 as a nānārtha head word.

शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.150 · p. 34
स्वागतं स्वस्तिभेदं च स्वास्थ्यं वार्तमनामयम् ।सदा ददातु सानन्दं चिदानन्दो जगत्प्रभुः ॥ १५० ॥
अनुष्टुप्
genderअindecl.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययाध्यायः Śabdaratnākara 6.2281 · p. 277
निर्भरे सुष्ठु किमुत बलवत्स्वस्त्य(त्य?)तीव च ।वर्जनार्थे पृथङ्नानान्तरेणर्ते हिरुग्वषट् ॥ २२८१ ॥
अनुष्टुप्
genderअindecl.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव अव्ययवर्गः Trikāṇḍaśeṣa 3.4.3 · p. 264
क्षेमे पुण्ये च स्वस्ति स्यादुच्चैरर्थेऽट्ट कीर्तितम् ।वारंवारं शश्वदर्थे वारं वारेण चेष्यते ॥ ३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.242
स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥ २४२ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.887 · p. 101
सदा सना च नित्यत्वे स्वस्ति स्यान्मङ्गलादिषु ।इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु ॥ ८८७ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तान्ताः Dharaṇikośa 34.7.2 · p. 236
स्वस्त्याशीःक्षेमपुण्यादौ शश्वत्पुनःसदार्थयोः ।किमुतातिशये प्रश्ने यद्वत्प्रश्नवितर्कयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्पु (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.91 · p. 129
प्राच्यां पुरोऽर्थे प्रथमे पुरस्तादग्रतोर्थके ।स्वस्ति मङ्गलपुण्याशीःसुखाङ्गीकरणार्थकम् ॥ ९१ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास सकारादयः Paramānandīyanāmamālā 5.27.369 · p. 208
सव्यं तु दक्षिणे वामे सूदः स्यात्सूपकारके ।स्वामी गुहेऽधिपे स्वस्ति पुण्यकल्याणयोर्मतः ॥ ३६९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.26 · p. 301
जात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः ।निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च ॥प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे ।प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि ॥हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे ।पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे ॥बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये ।स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable); pāda 3, syllable 7 श (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अव्ययद्व्यक्षराध्यायः Śabdaratnākara 5.2.2277 · p. 276
सकृत् सहैकवारे च सामि स्यादर्धनिन्दयोः ।स्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि ॥ २२७७ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अनेकार्थाव्ययाध्यायः Vaijayantī 8.7.29 · p. 286
सकृत् सदैकवारे च सामि स्यादर्धनिन्दयोः ।स्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि ॥ २९ ॥
अनुष्टुप्