कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पुण्य

puṇyaक्ली · neut.

In 16 kośas: 21 synonym verses, 9 as a nānārtha head word, 21 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1379 · p. 52
धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः ।दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥ १३७९ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1436 · p. 54
पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ ॥विमलं विशदं वीध्रमवदातमनाविलम् ।विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.38
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.125 · p. 16
सनातनं ध्रुवं नित्यं शाश्वतं स्यादनश्वरम् ।धर्मः पुण्यं वृषः श्रेयः सुकृतं च समं स्मृतम् ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.132 · p. 16
शुचिर्मेध्यं पवित्रं च पुण्यं पावनमुच्यते ।विमलं विशदं वीध्रमुज्ज्वलं स्यादनाविलम् ॥ १३२ ॥
अनुष्टुप्
genderविadj.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.91 · p. 74
वैराग्य… मर्थमुद्वेगो निर्वेदविरागवत् ।पुण्यं तु सुकृतं धर्मं पापोऽधर्मस्तु दुष्कृतिः ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.86 · p. 415
पुंसि पाप्माथ सुकृतं श्रेयः पुण्यं वृषः पुमान् ।क्लीबे धर्म च धर्मोऽस्त्री मुदा मुच्च स्त्रियामुभे ॥ ८६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 242
योगाय यौ प्रभवतस्त्रिष्विमौ योग्य-यौगिकौ ।पवितः प्रयतः पूतः पवित्रः पावनः शुचिः ।मेध्यः पुण्योऽथ वाल्मीकि - वाल्मीक - कुशिनः कविः ॥ ४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.70 · p. 104
नपुंसके नाम-धनान्धकार-वियद्धृषीकाम्बुरुहाम्बु-खानाम् ।रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख-सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥
उपजातिः
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 130 · p. 65
खमिन्द्रियं हृषीकं च श्रो(स्रो)तोऽक्षं करणं विदुः ।पुण्यं भाग्यं च सुकृतं भागधेयं च सत्कृतम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.269 · p. 85
मङ्गः पुण्यं वृषो धर्मः सुकृतं श्रेयसा सह ।अशुभं कल्मषं पापं वृजिनं किण्वपातके ॥ २६९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.324 · p. 92
कश्मलं मलिनं म्लानं कच्चरं च मलीमसम् ।पवित्रं मेध्यपूते च पावनं पुण्यनाम च ॥ ३२४ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.683 · p. 115
शिवं पुण्यं पवित्रे स्यान्मलिने कच्चरं मतम् ।विमले शोधितं वि(वी?)ध्रं निर्णिक्तं मृष्टमित्यपि ॥ ६८३ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.131 · p. 32
याचकस्तर्कुको ग्राही मार्गणोऽर्थी वनीपकः ।धर्मः पुण्यं वृषः श्रेयः सुकृतं शुभकर्म च ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2506 · p. 406
धर्मः श्रेयो वृषः पुण्यं सुकृतं नाम पञ्चमम् ॥ २५०६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.159 · p. 421
पवित्रं पावनं पुण्यं पूतं मेध्यं तथैव च ।
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.302 · p. 21
धर्मोऽस्त्री सुकृतं पुण्यं श्रेयो धर्त्रं वृषोऽपि च ।मुत्प्रीतिः प्रमोदामोदसम्मोदमोदसम्मदाः ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.280 · p. 38
ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं समं त्रयम् ।धर्मोऽस्त्री सुकृतं श्रेयः पुण्यं सुचरितं वृषः ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.283 · p. 38
पुण्यपापे त्रिषु द्रव्ये तद्वच्छिवशुभादि च ।प्रमोदमोदप्रमदसंतोषामोदसम्मदाः ॥ २८३ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1658 · p. 199
कुट्टाकरछेदकश्छेत्ता शरारुर्हिंस्रघातुकौ ।पूतः पवित्रः प्रयतः पुण्यो मेध्यश्च शुद्धवत् ॥ १६५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.168 · p. 97
धर्मोऽस्त्री सुकृतं पुण्यं पाप्माधर्मौ तु दुष्कृतम् ।दुरितं पातकं पापं त्रस्तमंहोऽघकल्मषे ॥ १६८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.160
आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि ॥ १६० ॥
अनुष्टुप्
meaningsचारु
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.15 · p. 152
पुण्यं त्रितयमुद्दिष्टं श्रेयःसुकृतसुन्दरम् ।दूष्यं पटकुटी प्रोक्ता दूष्यं दूषणमर्हति ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.28 · p. 290
पुण्यं मनोज्ञे सुकृ[37a]ते च पूतेऽन्यवद्भवेद्धिष्ण्यमुडौ च [गे] हे ।स्थाने च शक्तावनले तु पुंसिशल्यं तु न स्त्री किल शङ्कुवाचि ॥ २८ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 ऽन्य (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.784 · p. 110
वैरूपाष्टकवर्गस्य स्यादन्त्ये साम्नि तत् तथा ।कूश्माण्डस्य फले पुण्यं पुनः क्ली जलपुष्पयोः ॥ ७८४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.785 · p. 110
व्योम्नि हेम्नि तथा धर्मे ( ब्रु ? व्र )ते च शुभकर्मणि ।गङ्गार्घ्ययोस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.786 · p. 110
अजयस्तु मनोज्ञात् तं भेदेनाह मनोहरे ।पुण्ड्रं तु तिलके न स्त्री पुमानिक्ष्वन्तरे क्रिमौ ॥ ७८६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.19 · p. 258
प्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च ।प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने ।पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् ।पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे ।वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् ।वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 हृद (syllable split)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1962 · p. 239
पुण्यं धर्मे शुभे शुद्धे पूर्वः प्राच्यादिकेऽर्थवत् ।पूर्वजेषु नृभूम्नोः स्यात् प्रस्थोऽस्त्री सानुमानयोः ॥ १९६२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.50 · p. 234
पुमांस्तु पृतनाकट्यां पापं म्यात् क्रूरपाप्मनोः ।पुण्यं धर्मे जले हेम्नि पुष्पे क्ली सुंदरेऽर्थवत् ॥ ५० ॥
अनुष्टुप्

पुण्य as a meaning in nānārtha verses