कल्याण
kalyāṇaक्ली · neut.In 19 kośas: 27 synonym verses, 11 as a nānārtha head word, 25 as a meaning of another word.
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः ।क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥ ८६ ॥
गीतिः
genderक्लीneut.
उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् ।अस्तेर्ज्ञानात्सत्यात्तदात्मनः कर्मणश्च परम् ॥ २४७ ॥प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च ।प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥ २४८ ॥
गीतिःmetre not read in every line
genderक्लीneut.
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकंखर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्णं पुनः ।स्वर्णं हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनंकल्याणं कनकं महारजनरैगाङ्गेयरुक्माण्यपि ॥ १०४३ ॥कलधौतलोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे ।तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि ॥ १०४४ ॥जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् ।
metre not recognised
रूप्यक्लीकलधौतक्लीतारक्लीरजतक्लीश्वेतक्लीदुर्वर्णकक्लीखर्जूरक्लीहिमांशुक्लीहंसक्लीकुमुदक्लीसुवर्णक्लीस्वर्णक्लीहेमन्क्लीहिरण्यक्लीहाटकक्लीवसुक्लीअष्टापदक्लीकाञ्चनक्लीकल्याणक्लीकनकक्लीमहारजनक्लीरैपुंगाङ्गेयक्लीरुक्मक्लीलोहोत्तमक्लीवह्निबीजक्लीगारुडक्लीगैरिकक्लीजातरूपक्लीतपनीयक्लीचामीकरक्लीचन्द्रक्लीभर्मन्क्लीअर्जुनक्लीनिष्कक्लीकार्तस्वरक्लीकर्बुरक्लीजाम्बूनदक्लीशातकुम्भक्लीभूरिक्लीभूत्तमक्ली
genderक्लीneut.
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
हेम स्वर्णं जातरूपं सुवर्णं,भर्मं रुक्मं हाटकं शातकुम्भम् ।गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
शालिनी
genderक्लीneut.
रुक्मं कार्तस्वरं स्वर्णं कल्याणं भर्म कर्बुरम् ।धामीकरं जातरूपं वसु स्याच्छातकुम्भवत् ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
गैरिकं वसु कल्याणं रजतं भर्म कर्वुरम् ।चामीकरं जातरूपं चाम्पेयं वित्तमर्जुनम् ॥ ५३४ ॥
अनुष्टुप्
genderक्लीneut.
कल्याणं कुशलं कल्याणं गोजागरिकं भाविकं च शुभम् ।मद्रं भद्रं भन्दभन्दाके श्रेयो निःश्रेयसमपि भव्यम् ॥ ५१ ॥
metre not recognised
genderक्लीneut.
चाम्पेयं हाटकं भर्म भूरि चामीकरं वसु ।कल्याणं कनकं रुक्मं रिक्थं काञ्चन-कर्बुरे ॥ ४९ ॥
अनुष्टुप्
genderक्लीneut.
भाण्डाण्ड-तुण्डानि च चक्रवाडंगूढं च तीक्ष्ण-ग्रहणेरणानि ।द्राणं पुराणं द्रविणं शणेर्णेकल्याण-पल्याण-निरूपणा[228b]नि ॥ ९८ ॥
इन्द्रवज्राmetre not read in every line
genderक्लीneut.
कृष्णसर्जो मदासर्जः कल्याणः पीवरोऽसनः ।महासालः पीतसालो जीवकः प्रियसालकः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.
क्षणः पर्व च कल्याणं मधुपर्कं तु निष्टकम् ।यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ॥ १२१ ॥
अनुष्टुप्
genderक्लीneut.
क्षेमं कल्याणमुभयं श्रेयो भद्रं च मङ्गलम् ।भावुकं भविकं भव्यं श्वोवसीयं शिवं तथा ॥ १९८ ॥
अनुष्टुप्
genderक्लीneut.
सुवर्णं काञ्चनं रुक्मं कल्याणं कनकं वसु ।हिरण्यं हाटकं वह्निबीजं चामीकरार्जुने ॥ ३२३ ॥
अनुष्टुप्
genderक्लीneut.
श्वःश्रेयसं शिवं शस्तं शुभं कल्याणनाम च ।शुभावहो विधिर्ना यः प्रधानं प्रकृतिः स्त्रियाम् ॥ २७२ ॥
अनुष्टुप्
genderक्लीneut.
स्वर्णं दाक्षायणं भर्म रुक्मं कार्तस्वरं घनम् ।कल्याणं रत्नगर्भं च द्राविणं राजभूषणम् ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
नववर्णे तु कल्याणं तङ्गं षोडशवर्णके ।शतवर्णे तु मेरुः स्यात्सुमेरुः स्यात्सहस्रके ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
कार्तस्वरं जातरूपं कलधौतं च कर्बुरम् ।तपनीयं च कल्याणं रुक्मं जाम्बूनदं वसु ॥ १७३ ॥
अनुष्टुप्
genderक्लीneut.
कुशलं मङ्गलं भद्रं कल्याणं भावुकं शुभम् ।क्षेमं भव्यं शिवं श्रेयः शस्तं स्वःश्रेयसं स्मृतम् ॥ १४९ ॥
अनुष्टुप्
genderक्लीneut.
प्रशस्तं सुकृतं शस्तं सूनृतं च ततः परम् ।कल्याणं मङ्गलं चैव भद्रं काम्यं तथा शिवम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
कनकं काञ्चनं कार्त्तस्वरं चामीकरं तथा ।कल्याणं कर्णिकारच्छायं गाङ्गेयञ्च गैरिकम् ॥ १८०६ ॥
अनुष्टुप्
genderक्लीneut.
मङ्गलं भावुकं भव्यं कल्याणं भविकं शुभम् ।अस्त्री क्षेमं प्रशस्तञ्च भद्रं श्वश्रेयसं शिवम् ॥
अनुष्टुप्
genderक्लीneut.
द्युम्नं हिरण्यमथ हाटकशातकुम्भ-गाङ्गेयचन्द्रकलधौतशिलोद्भवानि ।कल्याणरुक्मतपनीयहिरण्यहेमकार्तस्वरं कनककाञ्चनकर्बुराणि ॥ १४० ॥
वसन्ततिलका
genderक्लीneut.
भाग्यं दिष्टं भागधेयं दैवं च नियतिर्विधिः ।श्वःश्रेयसं तु कल्याणं श्वोवसीयं शिवं शुभम् ॥ २८१ ॥
अनुष्टुप्
genderक्लीneut.
क्षणः पर्व च कल्याणं भोज्यं तु जठरोत्सवः ।मधुपर्कस्तु निष्टंकः शंखपात्रं तु पाटली ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
उपान्ते विप्रकृष्टे तु दूरं व्यवहितं परम् ।भासुरं भविकं भव्यं कल्याणं श्वोवसीयसम् ॥ १४२ ॥
अनुष्टुप्
genderविadj.
कल्याणं तूत्सवे क्लीबं मङ्गलेऽक्षयरुक्मयोः ।हलायुधः स्वर्णपत्रे पठत्यनतिसूक्ष्महक् ॥ ३०१ ॥
अनुष्टुप्
श्रुतौ च स्त्री तु कल्याणी -------- ।शुभयुक्ते शाश्चतस्तु वदत्य--मात्रके ॥ ३०२ ॥
metre not recognised
meaningsश्रुति
क्वचिदाङ्गिरसे मत्ये कलापस्तु पुमानयम् ।काञ्चीतूणीसमूहेषु भूषणे बर्हिबर्हके ॥ ३०४ ॥
अनुष्टुप्
meaningsआघ्गिरसमर्त्य
doubtful
कल्याण as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) अथअथानन्तरकल्याणसम्प्रश्नादिषु कथ्यते । अथो इति तथा प्रोक्तो नामाभ्युपगमादिषु ॥ ८८६ ॥ Abhidhānaratnamālā (Halāyudha) 5.886
- धरणिकोश शान्तिशान्तिः शमे च कल्याणे कान्तिः शोभेच्छयोरपि । ऊतिः स्यूतौ च रक्षायां सातिर्दानावसानयोः ॥ Dharaṇikośa 15.1.4
- धरणिकोश भद्रभद्रं सुखे च कल्याणे निन्दा कुत्सापवादयोः । सम्पल्लक्ष्म्यां गुणोत्कर्षे शरत्संवत्सरे ऋतौ ॥ Dharaṇikośa 17.1.3
- कोषकल्पतरु कम्कं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोः पृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि । स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो- र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥ Koṣakalpataru 5.1.6
- कोषकल्पतरु कल्यकल्यं प्रभाते गतवासरे च सज्जे तु दक्षे त्रिषु रोगमुक्ते । वाक्कर्णहीने मदिरागतस्तु न पुंसि कल्याणगतं तु योषित् ॥ ३० ॥ Koṣakalpataru 6.26.30
- कोषकल्पतरु भद्रस्त्रियां तु रास्नासुरनिम्नगार्थो- ऽनन्ताकणाकट्फलवाचकः स्यात् । तिथौ च विष्टौ चरमे तु हेम्नि कल्याणमुस्तार्थ[क]ईरितश्च ॥ ४६ ॥ Koṣakalpataru 6.27.46
- कोषकल्पतरु निःश्रेयसनिःश्रेयसं तु मोक्षे कल्याणे चन्द्र[91a]खण्डे च । कुम्भीनसस्तु[भुजगे]सविषज्वालादृशि प्रोक्तः ॥ २० ॥ Koṣakalpataru 6.31.20
- नानार्थार्णवसंक्षेप भव्यकल्याणाख्यगुणे च स्याद् भेद्यलिङ्गं तु तद्वति । योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि ॥ ८८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.887
- नानार्थार्णवसंक्षेप शिवतुलस्यां क्रोष्टुभेदे च दीप्तजिह्वाह्वयेऽथ तत् । क्लीबं वारिणि कल्याणे स्थौणेये मूलकान्तरे ॥ १३६१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1361
- नानार्थार्णवसंक्षेप मङ्गलप्राग्देशावस्थिते नीवृद्भेदे समतटाह्वये । अथ मङ्गलमस्त्री स्यात् कल्याणे त्रि तु तद्वति ॥ १३१६ ॥ Nānārthārṇavasaṃkṣepa 4.1316
- नानार्थार्णवसंक्षेप निःश्रेयसदेवधान्यं यावनाले देवानामपि धान्यके । निःश्रेयसं तु कल्याणे मोक्षे निःसरणं पुनः ॥ २० ॥ Nānārthārṇavasaṃkṣepa 6.20
- परमानन्दीयनाममाला स्वस्तिसव्यं तु दक्षिणे वामे सूदः स्यात्सूपकारके । स्वामी गुहेऽधिपे स्वस्ति पुण्यकल्याणयोर्मतः ॥ ३६९ ॥ Paramānandīyanāmamālā 5.27.369
- शब्दरत्नावली कृतिकृतिर्जुगुप्साकल्याणसार्द्धासु वर्त्मनि स्त्रियाम् । कृतमुच्छशिले नीरे सत्ये दीप्ते च पूजिते ॥ Śabdaratnāvalī 7.16.5
- शब्दरत्नावली मङ्गलमङ्गलो भूमिपुत्रे स्यात्कल्याणे तु नपुंसकम् । मण्डलं परिधौ कोठे देशे द्वादशराजके ॥ Śabdaratnāvalī 7.28.82
- शब्दरत्नावली ववकारः पवने वाहौ वरुणे मन्त्रणेऽपि च । कल्याणे बलवत्यश्वे वसतौ वरुणालये । वो गन्धने गतौ वाले तन्त्रवायकुविन्दयोः ॥ Śabdaratnāvalī 7.29.1
- शब्दरत्नावली श्वश्रेयसवरीयान् योगभेदे स्याद्युनि श्रेष्ठवरिष्ठयोः । विहायाश्च खगे पुंसि गगणे पुनरस्त्रियाम् ॥ विभावसुर्दिनकरे हारभेदे च पावके । श्वश्रेयसन्तु कल्याणे सुखे च परमात्मनि ॥ Śabdaratnāvalī 7.32.53
- शब्दरत्नावली उत्साहआरोहस्तु समुच्छ्रयदीर्घत्वारोहणेषु च । कट्यामप्युत्तमस्त्रीणां तथावरोह इत्यपि । उत्साह उद्यमे सूत्रे कल्याणभावभेदयोः ॥ Śabdaratnāvalī 7.33.17
- शब्दरत्नावली शश्वत्शश्वत्सदार्थे कल्याणे पुनरर्थभृशार्थयोः ॥ Śabdaratnāvalī 8.1.31
- शब्दरत्नावली अथोअथो अथ समारम्भे सत्ये कल्याणकार्स्त्थयोः । विकल्पानन्तरप्रश्नेष्वधिकारे समुच्चये ॥ Śabdaratnāvalī 8.1.34
- शब्दरत्नावली ओम्मा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
- शब्दरत्नावली शम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नाकर मङ्गलकल्याणे मङ्गलं भौमे मङ्गलो मन्थरस्त्रिषु । मन्दगामिनि मन्थाने सूचके मधुरस्त्रिषु ॥ २१४९ ॥ Śabdaratnākara 4.1.2149
- त्रिकाण्डशेष क्षेमकुसुमं स्त्रीरजः पुष्पं क्षेमं कल्याणरक्षयोः । क्षेमा चण्डाऽथ कलमा लेखनीचौरशालयः ॥ २९४ ॥ Trikāṇḍaśeṣa 3.3.294
- वैजयन्ती भद्रअन्नतत्परयोर्भक्तं भद्रं कल्याणसौख्ययोः । मन्दाः सरोगनिर्भाग्यस्वल्पाज्ञापटुसूर्यजाः ॥ ६० ॥ Vaijayantī 6.5.60
- वैजयन्ती श्रेयस्विहाय महिषीमेकां भोगिन्योऽन्या नृपस्त्रियः । श्रेयोऽत्यन्तं प्रशस्ते स्यात् कल्याणे धर्ममोक्षयोः ॥ ३२ ॥ Vaijayantī 8.5.32