हरिमन्थ
harimanthaपुं · masc.In 8 kośas: 8 synonym verses, 2 as a meaning of another word.
प्रवेलशारदजया नीले हरितशाखिकौ ।वसुर्वनाखुः खण्डीरो हरिमन्थश्च धूसरः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
चणस्तु हरिमन्थः स्यात्कञ्चुकी कृष्णकञ्चुकः ।बालभोज्यो वाजिभक्ष्यः सुगन्धस्त्रिविधश्च सः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
हरिमन्थस्तु चणको निष्पावः सितशिम्बिकः ।वल्लश्चाथ तिलस्तैलफलपूतेऽथ जर्तिलः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कुल्माषो यावकश्चापि कुलुत्थे संप्रकीर्तितौ ।चणके हरिमन्थः स्यात्तिलपिञ्जस्तु निष्फले ॥ ४३१ ॥
अनुष्टुप्
genderपुंmasc.
गणिकारिश्च गणिका श्रीपर्णं गणिकारिका ।अग्निमन्थो हरिमन्थस्तेजोमन्थो जयत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderपुंmasc.
सतीलक-सातीलकौ त्रिकटोऽङ्कट इत्यपि ।चणके हरिमन्थः स्यात् हरिमन्थज इत्यपि ॥ २५३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
चणको हरिमन्थश्च लसन्तस्तु लसन्तिका ।उभौ त्वरण्यजे मुद्गे मकुष्टकमयष्टकौ ॥ १४२४ ॥
अनुष्टुप्
genderपुंmasc.
सुराष्ट्रचीनचक्षुष्या हरिमन्थार्धरूपकौ ।कृष्णे प्रवरवासन्तौ हरिमन्थजशिंबिकौ ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
हरिमन्थ as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप हरिमन्यनिःश्वासे हरिमन्यस्तु पीतमुद्गे हरेरपि । मन्थेऽथ हरिरोमः स्यात् पुरुहूते विरिञ्चने ॥ १३१ ॥ Nānārthārṇavasaṃkṣepa 6.131
- नानार्थार्णवसंक्षेप उपकुर्वाणउपकुर्वाण इत्येष त्रि तु स्यादुपकर्तरि । स्यात् पुनर्हरिमन्थाख्यमुद्गजात्यन्तरे पुमान् ॥ ३४ ॥ Nānārthārṇavasaṃkṣepa 7.34