कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

केसरिन्

kesarinपुं · masc.

In 20 kośas: 28 synonym verses, 3 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1285 · p. 49
अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ ॥हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः ।महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ ॥श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रकौ ।चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र द्वित्रिचतुष्पञ्चेन्द्रियाः Abhidhānacintāmaṇipariśiṣṭa 4.6.177 · p. 7
अश्वे तु क्रमणः कुण्डी प्रोथी ह्रेषी प्रकीर्णकः ॥ १७५ ॥पाकलः परुलः किण्वी कुटरः सिंहविक्रमः ।माषाशी केसरी हंसो मुद्गभुग्गूढभोजनः ॥ १७६ ॥वासुदेवः शालिहोत्रो लक्ष्मीपुत्रो मरुद्रथः ।चामर्येकशफोऽपि स्यादश्वायां पुनरर्वती ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.1
सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः ॥पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.214 · p. 26
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.306 · p. 94
सिंहो मृगेन्द्रः पञ्चास्यः पारीन्द्रः श्वेतपिङ्गलः ।व्याकीर्णास्यो महानादो मृगपः केसरी हरिः ॥ ३०६ ॥
अनुष्टुप्
genderपुंmasc.
केशरी केसरी च स्यात् शूकरः शुकरस्तथा ।किरिः किरः स्यात् प्लवगः प्लवङ्गश्च प्लवङ्गमे ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.37 · p. 2
मृगारिमृगराट् सिंहो मृगेन्द्रः केसरी हरी ।नारी स्त्री युवती योषित्कन्या च प्रमदाङ्गना ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम भूम्यधिकारस्तृतीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 3.14 · p. 23
मातुलुङ्गे तु रुचको वराम्लिः केसरी शरः ।बीजपूरे मातुलुङ्गो लुङ्गस्तु फलपूरकः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.191 · p. 110
स्यान्मुद्गमाषपर्यायाशनार्थश्चामरी च वाट् ।श्र्यर्थात्पुत्रार्थकः पीतिः केसरी हंस इत्यपि ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.3 · p. 318
वनपर्वतयोरर्थान्निवासार्थोऽष्टपादपि ।उष्ट्राकृतिश्चाथ सिंहः पञ्चास्यः केसरी हरी ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.5 · p. 318
पलंकषो महानादः पारीन्द्रो नखरायुधः ।अगौकाश्च नगौकाश्च केसरी करिमाचलः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.13 · p. 342
रौहिणश्चन्दगिरिर्विन्ध्यस्तु जलवालुकः ।वेङ्कटाद्रिः केसरी स्यात्सिंहः केशववल्लभः ॥ १३ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.10 · p. 452
आत्मयोनिरथैतस्यावताराः स्युर्महात्मनः ।पर्यायो मत्स्यकमठकोलकेसरिणामपि ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.16 · p. 144
बृहत्फलश्च रुचकः केसरी स तु शैलजः ।दैवदूती सुगन्धाढ्या मातुलुङ्गा वनीयकः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.2 · p. 189
हर्यक्ष-पञ्चास्य-गभीरनादाः स्याच्छ्वेतपिङ्गश्च स केसरी च ।अष्टापदस्तूर्ध्वचतुष्पदः स्यादूर्ध्वेक्षणः स्याच्छरभो हरिद्विट् ॥ २ ॥
इन्द्रवज्रा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.9 · p. 253
क्रमणकेसरि-केसरि-विक्रमा-निलरथैकशफा गृहभोजनः ।कुटच-चामरि-पालक-किण्विनःपरुल-वाडव-हंस-मुहुर्भुजः ।वडवाश्वा प्रसूर्वामी वाजिनी चार्वती हयी ।अश्वस्यन्ती कामुकी सा टारो लघुतुरंग[113b]मः ॥ ९ ॥
द्रुतविलम्बितम्two metres in one verse
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.37 · p. 266
भवेत्परिज्वा क्रतुकर्मविज्ञे[तथा] परीचारकयाज्ञिके च ।देवे सुपर्वा विशिखे च वंशेधूमे च पर्वण्यथ केसरी स्यात् ॥ ३७ ॥
उपजातिः
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.54 · p. 32
वराम्लो बीजको लुङ्गो रुचको मध्यकेसरः ।कृमिघ्नो गन्धकुमुमः केसरी शीधुपादपः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 90 · p. 45
नागाद्यरिः कण्ठी(ण्ठि)रवो मृगेन्द्रः केसरी हरिः ।व्याघ्रश्चमूरः शार्दूलः शरभोऽष्टापदोऽष्टपात् ॥ ९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ण्ठी (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.189 · p. 75
मृगारिः केसरी चापि मृगात्पतिरपीक्ष्यते ।हर्यक्षो व्याघ्र इत्येवं द्वीपिशार्दूलचित्रकाः ॥ १८९ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.126 · p. 9
हर्यक्षः केसरी सिंहो हरिः पञ्चाननः सटी ।द्वीपी व्याघ्रो वर्त्तुलाक्षः शार्दूलो मृगमांसभुक् ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.151 · p. 17
वातायुः कृष्णसारश्च रुरुमुख्यास्तु तद्भिदः ।सिंहो मृगेन्द्रः पारीन्द्रो हर्यक्षः केसरी हरिः ॥ १५१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2231 · p. 364
केशरी केसरी कुण्डी कुटरः पालकः पुनः ।घोटकस्तुरगस्तार्क्ष्यस्तुरङ्गश्च तुरङ्गमः ॥ २२३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2320 · p. 375
महानादो नभःक्रान्तः कण्ठीरवश्च केसरी ।इभारिः रक्तजिह्वश्च वनराजो गणेश्वरः ॥ २३२० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.180 · p. 233
जाम्बीरेऽपि च जम्भीरो जम्भीलो जम्भ-जम्भलौ ।बीजपुरे पूरकः स्यात् सुपूरकश्च केसरी ॥ १८० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.319 · p. 244
सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव- कण्ठेरवौ ।केशरी दन्त्यतालव्यः, व्याघ्रे द्वीपीव द्वीपिनः ॥ ३१९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 क (wrong syllable); pāda 4, syllable 5 व (wrong syllable)
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.676 · p. 86
सिंहः पञ्चमुखो हरिर्मृगपतिः कण्ठीरवः केसरीहर्यक्षो नखरायुधोऽथ कुठरः स्यादल्पकण्ठीरवः ।सिंहारिः शरभोऽष्टपादथ समाः शार्दूलपिण्डारक-व्याघ्रद्वीपितरक्षुचित्रतनवः स्युः पुण्डरीकोऽप्यमी ॥ ६७६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.33 · p. 47
मातुलुंगे तु रुचको वराम्लः केसरी शठः ।वीजपूरे मातुलुंगो लुंगः सुफलपूरकौ ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.38 · p. 266
सिंहे हये स्यादिभकेसरे चपुंनागके च प्रथितः प्रवीणैः ।क्लीबे ललाम ध्वजवाजिशृङ्गेप्रधानभूषास्वपि वालधौ च ॥ ३८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.586 · p. 97
केसरी तु पुमान् सिंहे मातुलुङ्गे तुरङ्गमे ।पुन्नागे चाप्ययोः भेद्यलिङ्गः केसरवत्यसौ ॥ ५८६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.21 · p. 240
वायौ वसन्ते क्षिपणुः क्षिपणो वायुकालयोः ।कुषाकुः पावके सूर्ये केसरी हयसिंहयोः ॥ २१ ॥
अनुष्टुप्