मराल
marālaपुं · masc.In 13 kośas: 14 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः ॥ १९१ ॥गोनर्दो मैथुनी कामी श्येनाक्षो रुक्तमस्तकः ।
अनुष्टुप्
genderपुंmasc.
मरालः शुक्लपक्षश्च मानसौकाः सितच्छदः ।परिप्लावी चक्रदेहः सूचिको जालपादकः ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
हंसो मरालो नीलाक्षः कार्तस्वरगरुत्तथा ।शुकस्त्रियां तु मेधावी श्रीमान्नासीफलाशनः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
सितेतरैर्धार्तराष्ट्रा मरालो धूसरच्छदः ।कादम्बः कलहंसः स श्यामधूसरपक्षकः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
चक्राङ्गो धवलगरुन्मराल-हंस-चक्राङ्का अपि कलकण्ठ-केरवौ च ।आरक्ताननचरणः स राजहंसःश्वेतान्यैर्मुखचरणैः स धार्तराष्ट्रः ॥ ६९ ॥
प्रहर्षिणी
genderपुंmasc.
ओघो वर्गश्च सन्तानः काव्यमेव कविस्थितिः ।हंसो मरालश्चक्राङ्गः हंसवाहः सनातनः ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
सलोहितो जातरङ्गः कुरुविन्दोऽतिलोहितः ।सौगन्धिको मरालः स्यान्नीलगन्धी तु घूमलः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
हंसो मरालश्चक्राङ्गो मानसौकाः शितच्छदः ।हंसभेदा राजहंसाः कादम्बा धार्तराष्ट्रकाः ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
हंसाः सितच्छदाः श्वेतगरुतो मानसौकसः ।चक्राङ्गाश्चाथ वक्राङ्गाः मरालाः पुनरत्र वै ॥ २४०३ ॥
अनुष्टुप्
genderपुंmasc.
कुलालकुक्कुटश्चाथ पुष्कराह्वस्तु सारसः ।हंसो मरालश्चक्राङ्गो जालपादः सितच्छदः ॥ ८०६ ॥
अनुष्टुप्
genderपुंmasc.
खट्वारूढोविनीतः स्यान्मरालमसृणे समे ।प्राञ्जलः प्रगुणोऽजिह्मः प्रणाय्यः साध्वनिन्दितौ ॥ २६ ॥
अनुष्टुप्
genderविadj.
गृह्याश्छेकाश्च गेहेषु संसक्ता मृगपक्षिणः ।हंसो मरालो नीलाक्षश्चक्रपक्षः सितच्छदः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
प्रतिहासः शतप्रासः शितिकुंभोऽश्वमारकः ।चंडातोऽश्वरिपुः श्वेते मरालोऽत्रातिलोहिते ॥ १९२ ॥
अनुष्टुप्
genderपुंmasc.
शोणोऽरुणश्च संध्याभः श्वेतरक्तस्तु पाटलः ।मरालोऽल्पः पीतरक्तः पीतरक्तस्तु पिंजरः ॥ १७ ॥
अनुष्टुप्
genderविadj.
मरालस्तु द्वयोर्हंसे मिश्रवर्णे पुनः पुमान् ।स चाल्पपीतरक्ते स्याद् भेद्यलिङ्गं तु तद्वति ॥ १३५५ ॥
अनुष्टुप्
मराल as a meaning in nānārtha verses
- कोषकल्पतरु बन्धुरस्याद्बन्धुरः पुंसि मरालवाची कृमिघ्नबन्धूकगतः स्त्रियां तु । पण्याङ्गनायां परवत्तु रम्ये नम्रे च बन्धूर इवोपदिष्टः ॥ १७ ॥ Koṣakalpataru 6.27.17
- नानार्थार्णवसंक्षेप मदारमदारो हस्तिनि त्रि स्यादलसेऽथ नृलिङ्गकः । एकाहक्रतुभेदे स्यान्मरायोः मूत एव च ॥ १३५२ ॥ Nānārthārṇavasaṃkṣepa 4.1352