विष्किर
viṣkiraपुं · masc.In 15 kośas: 17 synonym verses, 2 as a nānārtha head word.
विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तिशकुनौ विवयः शकुन्ताः ।नभसंगमो विकिरपत्त्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ ॥पित्सन्नीडाण्डजोगौकाश्चञ्चुश्चञ्चू सृपाटिका ।त्रोटिश्च पत्त्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ ॥पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः ।
metre not recognised
विहगपुंविहंगमपुंखगपुंपतगपुंविहंगपुंशकुनिपुंशकुन्तिपुंशकुनपुंविपुंवयस्क्लीशकुन्तपुंनभसंगमपुंविकिरपुंपत्त्ररथपुंविहायस्पुंद्विजपुंपक्षिन्पुंविष्किरपुंपतत्रिन्पुंपतत्पुंपतङ्गपुंपित्सत्पुंनीडजपुंअण्डजपुंचञ्चुस्त्रीचञ्चूस्त्रीसृपाटिकास्त्रीत्रोटिस्त्रीपत्त्रक्लीपतत्रक्लीपिच्छक्लीवाजपुंतनूरुहक्लीपक्षपुंगरुत्पुंछदपुंपक्षतिस्त्री
genderपुंmasc.
कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः ।मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ १८९ ॥आरणी विष्किरो बोधिर्नन्दीकः पुष्टिवर्धनः ।चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः ॥ १९० ॥उषाकीलो विशोकश्च व्राजस्तु ग्रामकुक्कुटः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderपुंmasc.
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
अनुष्टुप्
genderपुंmasc.
शकुनः खगो नगौकाः पक्षी विर्विष्किरस्तथा विकिरः ।अण्डजनीडजवाजिद्विजाश्च कथिताः समानार्थाः ॥ २३८ ॥
आर्या
genderपुंmasc.
विकिरो विष्किरः पत्रिर्नगौकाश्च नगौकसा ।शरडश्च सरण्डापि पतगश्च वयो द्वयोः ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
बहुप्रजः शिखण्डी च विष्किरः स्यादुषःकलः ।कामकाकुरवो झिल्लीकण्ठोऽपि गुणलोचनः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
पतेरो विष्किरोऽण्डोत्थो वलूकाङ्गः कठाकवः ।वयोऽन्तिमेऽथ तुण्डं स्यात्सृपाटी त्रोटिरित्यपि ।चञ्चू-चञ्च्वौ गरुत्त्वस्त्री पुंसौ पक्ष-च्छदावुभौ ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च तौ ।मृगा महामृगा मत्स्याः प्रतुदा विष्किरास्तथा ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
अर्के विकीरणोऽर्काह्वो जम्भलाऽऽस्फोटविष्किराः ।क्षीरार्कपर्णः राजार्के त्वलर्को गणरूपकः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
तच्चरः खेचरः तद्गः पक्षी पत्री पतत्र्यपि ।शकुन्तिः शकुनिर्विश्च पतङ्गो विष्किरोऽन्यथा ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
शकुन्तिः शकुनिः [44] पत्ररथो द्विजविहंगमौ ।विष्किरो विर्वयः पित्सन्नीडजश्चाण्डजः स्मृतः ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
विहायो विः पत्त्ररथो विकिरः पतगोऽण्डजः ।नगौका नीडनिलयः खचरो विष्किरो वयः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
विहगो विकिरो वाजी विहङ्गश्च विहङ्गमः ।वारङ्गश्चैव वारङ्गिः विष्किरश्च विविष्किरः ॥ २३७७ ॥
अनुष्टुप्
genderपुंmasc.
विष्किरश्चेति नामानि कथ्यन्ते कुक्कुटस्य वै ।व्राजः स्याद्ग्रामकुक्कुटो यो ग्रामे दृश्यते जनैः ॥ २४०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्कु (wrong syllable)
genderपुंmasc.
अण्डजो वाजि-विकिरौ व्योमचारी वि-विष्किरौ ।नाडीचरण-पित्सन्तौ नीडोद्भव-विहायसौ ॥
अनुष्टुप्
genderपुंmasc.
चकोरो वरकः शारी पद्यो वातीकतित्तिरी ।रक्तवर्त्मक इन्द्राह्वो वराटश्चेति विष्किराः ॥ ८१३ ॥
अनुष्टुप्
genderपुंmasc.
मार्जारकण्ठः केकालिर्विष्किरो नर्तनप्रियः ।मेघनादानुलासी च दार्वण्डश्चन्द्रकीति च ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
विष्किरस्तु द्वयोः पक्षिमात्रे कुक्कुटपक्षिणि ।मयूरे च विरागस्तु वैराग्ये ना त्रिषु त्वयन् ॥ १७०९ ॥
अनुष्टुप्