स्वस्तिक
svastikaपुं · masc.In 18 kośas: 27 synonym verses, 7 as a nānārtha head word, 4 as a meaning of another word.
वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी ।मकरः श्रीवत्सः खड्गी महिषः सूकरस्तथा ॥ ४७ ॥श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः ।मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ १८९ ॥आरणी विष्किरो बोधिर्नन्दीकः पुष्टिवर्धनः ।चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः ॥ १९० ॥उषाकीलो विशोकश्च व्राजस्तु ग्रामकुक्कुटः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderपुंmasc.
स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् ।
अनुष्टुप्
genderपुंmasc.
स्वस्तिको वर्धमानश्च नन्द्यावर्तादयस्तथा ।विच्छन्दकविशेषाः स्युरमी भूपतिवेश्मनाम् ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
पद्माकरस्तटाकः स्यात्कासारः सरसी सरः ।स्वस्तिकः पुष्करः सिन्धुर्जलाशय इतीर्यते ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
वा पुंसि वर्द्धमानोऽस्त्री रुचकस्वस्तिकौ समौ ।सिंहार्थाद्द्वारपर्यायं तत्रैव स्यात्प्रवेशनम् ॥ ६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सूचिपत्रः शीतवरः स्वस्तिकः पुरुटः शिखी ।मेधाकृद्ग्राहकः सूची कुक्कुटः सुनिषण्णकः ॥ ४६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
genderपुंmasc.
किकीदिविः स्वर्णचूडो नन्दिवर्द्धन इत्यपि ।विशोकः स्वस्तिकश्चाषश्चित्रवाजोऽपराजितः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
स्वस्तिकः सर्वतोभद्रो रुचको वर्धमानकः ।नन्द्यावर्तादयोऽन्ये च भेदा वैच्छन्दका मताः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
श्रीवारकः शीतवरः स्वस्तिकः कुक्कुटः स्थितिः ।चाङ्गेरीपत्रसदृशो वाहसः पत्रशूल्पिका ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
श्रीहस्तिन्यां तु भूरुण्डी कुरुण्डी काश्मरीरिपुः ।सुनिषण्णे सूचिपत्रः स्वस्तिकः शितिवारकः ॥ ३५५ ॥
अनुष्टुप्
genderपुंmasc.
स्वस्तिकश्चेभ्यसदनभेदाः सन्त्येव भूरयः ।संक्षिप्यान्योपकाराय परमानन्द उक्तवान् ॥ २९२ ॥
अनुष्टुप्
genderपुंmasc.
वृषभो वारणो वाजी कपिः क्रौञ्चाऽब्जस्वस्तिकाः ।चन्द्रमाः मकराङ्कः श्रीवत्सः खड्गी च सैरिभः ॥ ३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ब्ज (wrong syllable)
genderपुंmasc.
नन्द्यावर्त्तः स्वस्तिकश्च सर्वतोभद्र इत्यपि ।विच्छन्दा नाम रचना भवेद्धनाढ्यवेश्मनि ॥ १७४४ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 द्ध (wrong syllable)
genderपुंmasc.
रणेच्छुरारणी बोधिश्चित्रवाजश्च स्वस्तिकः ।विवृताक्षो निशावेदी विशोक पुष्टिवर्धनः ॥ २४०० ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 श्च (wrong syllable); pāda 4, syllable 3 क (wrong syllable)
genderपुंmasc.
अथ भूपालभवनमस्त्री सौधं सुधामयम् ।उयारीति च विख्याते उपकार्योपकारिका ॥नन्द्यावर्तः स्वस्तिकः स्यात् सर्वतोभद्रचित्रकौ ।विच्छन्दको वर्धमानस्तारामण्डल इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शेषोऽनन्तो वासुकिरहिराडथ शङ्खतक्षकाश्वतराः ।कम्बलगुलिकस्वस्तिककर्कोटकशङ्खचूडकौरव्याः ॥ ३०० ॥
गीतिः
genderपुंmasc.
स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ।विच्छन्दकविभेदाः स्युर्मेदिनीपतिवेश्मनाम् ॥ ८६१ ॥
अनुष्टुप्
genderपुंmasc.
निद्रालुस्तु शिवः शान्तः स्वस्तिकस्तु निषण्णकः ।अगस्त्यः शुकनासोऽथ महेन्द्री तु बृहत्फला ॥ १८०० ॥
अनुष्टुप्
genderपुंmasc.
स्थितिः पाशी तथाऽजे(हे)शो वामाङ्गुलितलस्थितः ।स्वस्तिकः खण्डसंज्ञश्च झ-कारो जान्तसंज्ञकः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
ॡ-र्हरो वामगण्डश्च मायावी शक्र-स्वस्तिकौ ।शान्तिकृत् शुद्ध-रुद्रौ च नीलपादोपलोनुपः ॥ १९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 क्र (wrong syllable)
genderपुंmasc.
फलपुच्छो वरण्डालुः स्याद्रङ्गेष्टालुकं तु यत् ।श्रीमस्तकः स्वस्तिकः स्याद्राहूच्छिष्टो रसोनकः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
मान्धीरो वाग्गुदस्तुल्यस्स तु मान्धीलवो महान् ।आतापी चिल्लिकोऽथ स्यात् स्वस्तिकः पुष्टिवर्धनः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कलंब्यां शतपर्वा स्यात् कलंबूर्वायसी वधा ।पटुञ्चिकायां तु शिवः शान्तः स्वस्तिककुक्कुटौ ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
स्वस्तिकोऽथ समस्थानं पादौ कुंचितसंपुटौ ।आसीनस्यासनान्येतान्यथ सुप्तस्य साम्यतः ॥ २२४ ॥
अनुष्टुप्
genderपुंmasc.
राजवेश्मोपकर्या स्यादुपकार्योपकारिका ।स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
चूडामणिः शिरोरत्नं स्वस्तिकस्तु त्रिकोणकः ।वालपाश्या पारितथ्या पत्रपाश्या ललाटिका ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
स्वस्तिको मङ्गलद्रव्ये मृगपिष्टविशेषयोः ।चारकोऽपि [च] संसारे गव्याश्वादिकसेविनि ॥
अनुष्टुप्
स्यादन्तिकं समीपेचुल्ल्यां ज्येष्ठस्वसरि च नाट्ये स्त्री ।स्यात्स्वस्तिकश्चतुष्केगृहभेदे मङ्गलद्रव्ये ॥ ८८ ॥
metre not recognised
पिष्टकविकृतौ तद्व-द्रतताल्यामादिमे प्रोक्तः ।कञ्चुकमस्त्री कवचेनिर्मोके वारणेऽपि स्यात् ॥ ८९ ॥
metre not recognised
doubtful
सर्षपी फलिनीसंज्ञवृक्षे व्याध्यन्तरे तथा ।स्वस्तिकस्तु पुमान् गेहवास्तुविन्यसनान्तरे ॥ १९१६ ॥
अनुष्टुप्
meaningsगेहवास्तुविन्यसन
त्रिकोणसंज्ञके चापि स्त्रीणां स्याद्भूषणान्तरे ।सुनिषण्णाह्वये शाकस्तम्बे पङ्कसमुद्भवे ॥ १९१७ ॥
अनुष्टुप्
doubtful
द्वे तु चाषसमाख्ये स्यात् पक्षिभेदेऽथ पुंस्ययम् ।स्वरितः स्वरभेदे स्यादुच्चनीचद्वयात्मके ॥ १९१८ ॥
अनुष्टुप्
meaningsचाष
doubtful
स्वस्तिकः स्यात् चतुष्के तु मङ्गलद्रव्यगेहयोः ।मरकोऽस्त्री सीधु शीधुपानेक्षु शीधुपात्रके ।अच्छिन्नपान्थपंक्तौ च त्रिषु स्यात् गतिशीलके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्षु (wrong syllable)
स्वस्तिक as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप सुनिषण्णशुद्धज्ञाने सुविद्ये त्रिः सुनिषण्णं पुनर्नपि । स्वस्तिकादिपदैः ख्याते शाकभेदेऽत्र पूर्ववत् ॥ ६८१ ॥ Nānārthārṇavasaṃkṣepa 6.681
- शिवकोष वितुन्नवितुन्नं वन्यभूधात्रीधानास्वस्तिकशीबले । विषघ्नी नाकुलीश्वेतागुडूचीत्रिवृतास्वथ ॥ २६८ ॥ Śivakoṣa 16.1.268
- तन्त्राभिधान दस्वस्तिकः कुटिला रूपं कृष्णश्चोमा जितेन्द्रियः । धर्महृद्वामदेवश्च भ्रमिर्बाहुः सुचञ्चला ॥ १११ ॥ Tantrābhidhāna 2.35.111
- तन्त्राभिधान झअङ्गुलीमूलगः खण्डः कुमुदः स्वस्तिकः स्मृतः । विख्यातकः स्थिराकारो झङ्कारो झा-र्णको मतः ॥ २६ ॥ Tantrābhidhāna 6.26