जतुका
jatukāस्त्री · fem.In 14 kośas: 21 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.
स्याच्चर्मचटकायां तु जतुकाऽजिनपत्त्रिका ॥ १३३६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका ।
अनुष्टुप्
genderस्त्रीfem.
जीवञ्जीवो जीवजीवो वरटी वरटा भवेत् ।लक्ष्मणा लक्षणा चोक्ता जतूका जतुकापि च ॥ १५५ ॥
अनुष्टुप्
genderस्त्रीfem.
जतुरस्त्री कृमिघ्नी स्त्री द्रुमार्थादामयार्थकः ।दीप्तिः पलाशी जतुका जतूका गन्धमादिनी ॥ ३७५ ॥
अनुष्टुप्
genderस्त्रीfem.
कपिञ्जलोऽपि हारीतस्तञ्जलो जिनपत्रिका ।जतूका जतुकापि स्यात्परोष्णी तैलपाऽप्यथ ॥ १४७ ॥
अनुष्टुप्
genderस्त्रीfem.
झिरी झीरी चाथ जर्त्ती पुनश्चर्मचटी च सा ।जिनपत्रा तु जतुका जतूकाऽप्यथ पूर्णिका ॥ १९० ॥
अनुष्टुप्
genderस्त्रीfem.
जतु क्लीबेऽथ जतुका जतूका जतुकृज्जनी ।जननी रञ्जनी चक्रवर्तिनी पर्पटी च सा ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
जतुका चर्मचटकाजिनपत्राथ पेचकः ।घूको निशाटः काकारिरुलूकः कौशिकोऽपि सः ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
रुहिरुहिकाहोपुरुषिका-हमहमिका कृत्तिकाः शूकाः ।रमिका लङ्का जतुकास्याद्धस्ताहस्तिकाढक्यौ ॥ ४० ॥
metre not recognised
genderस्त्रीfem.
हिङ्गुपत्र्यां पृथुः पृथ्वी दीर्घिका वारिपत्रिका ।जतुका रामठी वंशपत्री पिण्डा शिवाटिका ॥ २६६ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रपौण्डरीकं चक्षुष्यं सत्पुष्पं सानुमानकम् ।जतूकायां तु जतुका जतुकृच्चक्रवर्तनी ॥ २८४ ॥
अनुष्टुप्
genderस्त्रीfem.
पीतपादा शारिका च गोराटी गोकिराट्यपि ।जतुका चर्मचेटी तु परोष्णी वागुली समे ॥ २३६ ॥
अनुष्टुप्
genderस्त्रीfem.
चिकुवायां चर्मपत्रा जतुका प्रौढकण्ठिका ।परोष्णी श्रोत्रकण्ठी ना तीक्ष्णः स्यात्तैलपायिका ॥ ५९ ॥
अनुष्टुप्
genderस्त्रीfem.
जतूका जतुका चर्मचटकाऽजिनपत्रिका ।अजिनपत्रा नामाऽपि जतुकायाश्च कथ्यते ॥ २४२६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 जि (wrong syllable)
genderस्त्रीfem.
रजनी स्यात्तु यतुका जतूका जननी जनी ।संस्पर्शा जननिश्चैव जतुका चक्रवर्तिनी ॥
अनुष्टुप्
genderस्त्रीfem.
जतूका जतुका चर्मचटका गृहमाचिका ।जतुन्यजिनपत्रा च चर्मिश्चर्मचटीत्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
कदम्बीशरणाछत्रा तृण्यानडया विचिका ।परोष्णीगिरिकाकेकामक्षिका लक्षणा शिखा ।जतुका वटका काञ्ची गायत्र्यामलकी तनूः ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
जतूका जतोः का-कार्यौ जतुकृच्चातिविषा पुनः ।विषी विषा प्रत्युपाभ्यां त्रिवृति त्रिवृता स्मृता ॥ २३३ ॥
metre not recognisednearly अनुष्टुप्
genderस्त्रीfem.
गोकिराटिका गोराटी स्यात् चर्मचटका पुनः ।जतुका च जतूका च, परोष्ठ्यां वल्गुली स्मृता ॥ ३६१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
genderस्त्रीfem.
मन्थावलो मुखापानो जतुकाजिनपत्रिका ।लोपालोपालिका तुल्ये शित्पुटस्तु मधुव्रतः ॥ ८१६ ॥
अनुष्टुप्
genderस्त्रीfem.
जतुकाजिनपत्रा स्यात् परोष्णी तैलपायिका ।मलिम्लुचास्तु मशका भंभराली तु मक्षिका ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
जलप्रदे तु त्रिः क्ली तु जतुकं हिङ्गुनि स्मृतम् ।स्त्रियां त्वजिनपत्राख्यक्षुद्रपक्ष्यन्तरे स्मृता ॥ ७६९ ॥
अनुष्टुप्
meaningsअजिनपत्रा
स्याच्चक्रवर्तिनीसंज्ञे प्रोक्ता च स्थावरान्तरे ।जयन्तस्तु पुमानिन्द्रपुत्रे स्त्री तु जयन्त्यसौ ॥ ७७० ॥
अनुष्टुप्
doubtful
जम्बुको वरुरो नीचे शृगाले तर्कभेदके ।जतुकाऽजिनपत्रायां क्लीबं स्यात् हिङ्गुयावयोः ॥
अनुष्टुप्
meaningsअजिनपत्रा
जतुका as a meaning in nānārtha verses
- कोषकल्पतरु कृमिकिर्मी पलाशे गृहहेमपुत्र्योः स्त्रियां तदेनेहसि पुंसि सर्मः । ऊर्मिर्द्वयोर्वेगतरंगभङ्ग- प्रकाशलेखार्तिषु वेदनायाम् । स्याद्वस्त्रसंकोचन उत्कतायां कृमिः क्रिमिर्ना जतुकासु कीटे ॥ ७३ ॥ Koṣakalpataru 6.25.73
- शब्दरत्नावली रजनीरञ्जनो रागजनने रञ्जनं रक्तचन्दने । नीलीरोचनिकाशुण्डामञ्जिष्ठासु च रञ्जिनी ॥ रजनी रात्रिजतुकाहरिद्रानीलिनीषु च । राधना तोषणे स्त्री स्यात्क्लीबं प्राप्तौ च साधने ॥ राजा नृपे प्रभौ चन्द्रे क्षत्रिये च पुमानयम् । रेचनी कर्कश-दन्ती-रोचनी-त्रिवृतासु च ॥ Śabdaratnāvalī 7.20.69