कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कारण्डव

kāraṇḍavaपुं · masc.

In 11 kośas: 11 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1341 · p. 51
कारण्डवस्तु मरुलः सुगृहश्चञ्चुसूचिकः ॥ १३४१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.35
तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः ॥ ३४ ॥तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्चकोरकः ।कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.254 · p. 31
जीवञ्जीवकपिञ्जलचकोरहारीतवञ्जुलकपोताः ।कारण्डवकादम्बक्रकराद्याः पक्षिजातयो ज्ञेयाः ॥ २५४ ॥
गीतिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.294 · p. 92
कारण्डवो महापक्षो जलरङ्गस्तु वञ्जलः ।कुक्कुटो दीर्घपादश्च जालपादोऽम्बुकुक्कुटः ॥ २९४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.115 · p. 330
कारण्डवः काकवक्त्रो दीर्घाङ्घ्रिः कृष्णवर्णका ।प्लवो महाप्रमाणः स्यात्प्रसेवकगजश्च सः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.70 · p. 195
तैर्मल्लिकाक्षो मलिनैरथायं पीतैरिमैः स्यात्कलहंससंज्ञम् ।कादम्बको धूसरपक्ष एष कारण्डवः स्यान्मरुतोऽच्छपक्षः ॥ ७० ॥
इन्द्रवज्रा
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.275 · p. 393
मरुलो मरुलस्य स्याद् नाम कारण्डवः पुनः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.366 · p. 248
कारण्डवः, मीने मच्छो मत्सो मत्स्यो विसारिणा ।वेसारिणो विसारश्च शक्लीव शकली मता ॥ ३६६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.809 · p. 102
कारण्डवो बृहत्पक्षः क्वयिस्तु कुलपायिकः ।बको बकोटः कह्वश्च दर्वीतुण्डस्तु तद्भिदौ ॥ ८०९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.815 · p. 103
प्रतुदा अथ कादम्बहंसकारण्डवप्लवाः ।बलाका सारसोत्क्रोशकोकक्रौञ्चादयोऽप्सराः ॥ ८१५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.11 · p. 26
मद्गुस्त जलकाकः स्यादातिस्त्वाटिः शराटिका ।कारण्डवो महापक्षो जलरंकुस्तु वंजुलः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.

कारण्डव as a meaning in nānārtha verses