कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अनिश

aniśaवि · adj.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1471 · p. 55
अनारतं त्वविरतं संसक्तं सततानिशे ।नित्यानवरताजस्रासक्ताश्रान्तानि संततम् ॥ १४७१ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.67
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.698 · p. 81
सततं सन्ततमनिशं नित्यमजस्रं च शश्वदश्रान्तम् ।अविरतमनवरतं स्यादेकार्थमनारतमसक्तम् ॥ ६९८ ॥
आर्या
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.165 · p. 24
पुलाकश्चपलं क्षिप्रं झम्पासंपातपाटवम् ।अजस्रं नित्यमनिशमश्रान्तं सततं तथा ॥ १६५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.352 · p. 95
शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु ।अनारतानिशे नित्याजस्त्रे त्वविरतं पुनः ॥ ३५२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2674 · p. 432
असक्तमनिशं नित्यं संसक्तं सततं पुनः ॥ २६७४ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.156 · p. 11
सततं सन्तताश्रान्तं नित्यानवरतानिशम् ।अनारतञ्चाविरतमजस्रं नित्यमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.132 · p. 18
अविरतसन्ततसततानारतमनवरतमनिशमश्रान्तम् ।नित्यमजस्रं तीव्रं भृशमतिवेलं नितान्तमत्यन्तम् ॥ १३२ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.130 · p. 211
नित्यानवरताजस्रसतताश्रांतसंतताः ।अनारतं चाविरतमसक्तं चानिशं नपुम् ॥ १३० ॥
अनुष्टुप्
genderक्लीneut.