भृश
bhṛśaवि · adj.In 14 kośas: 12 synonym verses, 27 as a meaning of another word.
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १५०५ ॥अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः ।भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ १५०६ ॥
अनुष्टुप्
genderअindecl.
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
निविडं निविरीशं च दृढं गाढं प्रचक्षते ।कामं प्रकामं पर्याप्तं नितान्तं भृशमुच्यते ॥ ७१८ ॥
अनुष्टुप्
genderविadj.
अतेर्बलार्थमात्राः स्युर्भृशमुद्गाढनिर्भरे ।तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
संसक्त-सततासक्ताविरतानारतानि च ।तथा[17a]ऽनवरतं क्लीबेऽथात्यर्थे स्याद्भृशं दृढम् ॥ १६६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
भृशं बाढं तथा तीव्रं दृढोद्गाढे तथा समे ।नितान्तनिर्भरोत्कर्षातिमर्यादा भरे स्मृताः ॥ ३७९ ॥
अनुष्टुप्
genderअindecl.
अत्यर्थं निर्भरं तीव्रं गाढं बाढं दृढं भृशम् ।पूरितं भरितं पूर्णं शून्यरिक्ताखिलोद्वसाः ॥ १०७ ॥
अनुष्टुप्
genderविadj.
उत्कर्षोऽतिशयस्तीव्रं नितान्तं निर्भरो भरः ।एकान्तमतिवेलञ्च गाढं बाढं भृशं पुनः ॥ २७४२ ॥
अनुष्टुप्
genderविadj.
अतिवेलं भृशं गाठं प्रगाढं सुदृढं दृढम् ।उद्गाढं वाढमत्यर्थं सुभृशं भृशमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
अविरतसन्ततसततानारतमनवरतमनिशमश्रान्तम् ।नित्यमजस्रं तीव्रं भृशमतिवेलं नितान्तमत्यन्तम् ॥ १३२ ॥
गीतिः
genderविadj.
कामंगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् ।व्यसनार्तस्तूपरक्तो विप्रलब्धस्तु वञ्चितः ॥ १६९२ ॥
अनुष्टुप्
genderविadj.
अतिमात्रेऽतिमर्यादमतिवेलातिमानकम् ।भृशमत्यन्तमत्यर्थमधिकोद्गाढनिर्भरम् ॥ १३१ ॥
अनुष्टुप्
genderविadj.
भृश as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् बाढभृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ॥ ४४ ॥ Amarakośa 3.3.44
- हलायुधकोशः (अभिधानरत्नमाला) वाढअवश्यभृशयोर्वाढं दायादस्तुक्सपिण्डयोः । कुलीनश्रेष्ठयोर्जात्यं कोटिरुत्कर्षसंख्ययोः ॥ ८३६ ॥ Abhidhānaratnamālā (Halāyudha) 5.836
- धरणिकोश बाढसोढा स्यान्मर्षितः शक्तो वोढा भारिकमूढयोः । मूढस्तु मुग्धजडयोः बाढं भृशप्रतिज्ञयोः ॥ Dharaṇikośa 13.1.1
- धरणिकोश व्यायतगर्जितो मत्तमातङ्गे गर्जितं घननिःस्वने । व्यायतो व्यापृते दीर्घे व्यायतश्च दृढे भृशे ॥ Dharaṇikośa 15.2.50
- धरणिकोश काहलकाहली तरुणी प्रोक्ता काहलं भृशशुष्कयोः । काहला तुरगोत्साहे वाद्यभाण्डे प्रकीर्तिता ॥ Dharaṇikośa 27.3.29
- धरणिकोश अभीक्ष्णम्अभीक्ष्णमनिशं प्रोक्तमभीक्ष्णं स्या… । पौनःपौन्यमभीक्ष्णं [स्यादभीक्ष्णं] च भृशार्थकम् ॥ Dharaṇikośa 34.15.6
- धरणिकोश मङ्क्षुमङ्क्षु शीघ्रे भृशार्थे च मक्षु चाद्भुतखेदयोः ॥ Dharaṇikośa 34.22.1
- कोषकल्पतरु निनिःक्षेपे नियमे निवेशभ(भृ?)शयोर्दानेऽन्तिके दर्शने- न्तर्भावोपरमाश्रयाम्बुषु तयोधा(?)भावविन्यासके । हर्षे चौर्यनिकृष्टवर्जनविपर्यासप्रमोदेष्वप स्याद्विश्लेषविकारयोरुप पुनर्हीनेऽधिके चान्तिके ॥ ४ ॥ Koṣakalpataru 5.1.4
- कोषकल्पतरु अभीक्ष्णम्अभीक्ष्णमश्रान्तमुहुर्द्रुतार्थे- ऽथाभीक्ष्णमश्रान्त-भृशार्थयोः स्यात् । भवेदिदानीमधुनार्थवाक्य- संधानयोः स्यादुत किंचिदर्थे ॥ १० ॥ Koṣakalpataru 5.1.10
- कोषकल्पतरु पराप्राधान्यहिंसागतिधर्षणेषु प्रातीप्यवैमुख्यभृशाभिमुख्ये । विमोक्षविक्रान्तिवधे परा स्या- त्पुरा पुराणे निकटेऽप्यतीते ॥ १४ ॥ Koṣakalpataru 5.1.14
- कोषकल्पतरु दृढदृढः प्रगाढेऽतिशये भृशेऽस्त्री । स्थूले सम[277b]र्थेऽविनये त्रिषु स्या- द्बाढं प्रतिज्ञादृढयोस्तथान्त्ये ॥ ९३ ॥ Koṣakalpataru 6.14.93
- कोषकल्पतरु प्रखरस्यात्सारमेयेऽश्वतरे तुरङ्ग- सेनाहकेऽन्यत्र भृशं खरे च । शैलाग्रकेऽस्त्री शिखरो द्रुमाग्रे स्यात्कोटिकक्ष्यापुलकेषु तद्वत् ॥ ९१ ॥ Koṣakalpataru 6.27.91
- कोषकल्पतरु काहलस्त्रीलिङ्गं पाशाङ्के(?) काहल उक्तः खले परवत् । शुष्के भृशे तु षण्ढे सरन्ध्रवाद्यान्तरे स नरि ॥ ६७ ॥ Koṣakalpataru 6.28.67
- नानार्थार्णवसंक्षेप कटचापाग्रेषु त्रिषु पुनर्भृशे कष्टं तु भेद्यवत् । कृच्छ्रे च गहने चैतत् स्यादसत्त्वे नपुंसकम् ॥ १५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.159
- नानार्थार्णवसंक्षेप दृढदृढा स्त्रियामामलक्यां तमालक्यां तथौषधौ । तालमूलीसमाख्यायां त्रि तु स्थूलेऽधिके भृशे ॥ ६१२ ॥ Nānārthārṇavasaṃkṣepa 2.5.612
- नानार्थार्णवसंक्षेप बाढबाहा नृस्त्री स्त्रिया बाहौ बाह्यं तु त्रिर्बहिर्भवे । क्ली तु स्वकल्पिते नृत्ते बाढं तु स्याद्भृशे त्रिषु ॥ ८५६ ॥ Nānārthārṇavasaṃkṣepa 2.5.856
- नानार्थार्णवसंक्षेप प्रगाढदग्धेऽप्यथ प्रगाढः स्याद् भृशे कृच्छ्रेऽप्यथ स्मृतः । प्रतीक्ष्यः प्रतिपाल्ये च पूज्ये चाथ प्रणाय्यवाक् ॥ ३७ ॥ Nānārthārṇavasaṃkṣepa 3.4.37
- नानार्थार्णवसंक्षेप अतिवेलअतिवेलं भृशे वेलामतिक्रान्तेऽप्यथोच्यते । सहाये स्यादनुचरस्तथैवाप्यनुगन्तरि ॥ १० ॥ Nānārthārṇavasaṃkṣepa 6.10
- परमानन्दीयनाममाला दृढदढः शक्ते भृशे मत्ते द्युतिः किरणशोभयोः ॥ २३४ ॥ Paramānandīyanāmamālā 5.16.234
- शब्दरत्नावली काहलकाहली स्यात्तरुण्याञ्च काहलः शब्दमात्रके । कुक्कुटे ना भृशे शुष्के खलातिशययोस्त्रिषु ॥ Śabdaratnāvalī 7.28.52
- शब्दरत्नावली शश्वत्शश्वत्सदार्थे कल्याणे पुनरर्थभृशार्थयोः ॥ Śabdaratnāvalī 8.1.31
- शब्दरत्नावली सर्वथायथा तुल्येऽनुमाने च प्रशंसायामपीष्यते । वृथा निष्कारणे व्यर्थे तथा निष्फलचालने ॥ अव्यथा वितथे दुष्टे भिन्नार्थेऽपि निगद्यते । सर्वथा तु प्रतिज्ञायां भृशे हेतौ च कीर्त्यते ॥ Śabdaratnāvalī 8.1.36
- शब्दरत्नाकर कटकरिगण्डे शवे श्रोण्यां कलिञ्जे च भृशे कटः । मेघाश्मनि बलौ हस्ते करिहस्ते घृणौ करः ॥ १८८१ ॥ Śabdaratnākara 4.1.1881
- शब्दरत्नाकर परअष्टकायां परं दूरे भृशे मुख्यान्ययोः पुमान् । पादग्रन्थेरधः पार्ष्णि पुमांस्त्र्युत्तमयोषिति ॥ १९५६ ॥ Śabdaratnākara 4.1.1956
- त्रिकाण्डशेष अभीक्ष्णअभीक्ष्णं तु भृशे नित्ये स्यादिन्द्राणीन्द्रयोषिति । स्त्री बन्धे सिन्धुवारे च चक्षुर्दर्शनमीक्षणम् ॥ १२१ ॥ Trikāṇḍaśeṣa 3.3.121
- वैजयन्ती कटकर्पूः स्त्री तुषकोष्ठे कुल्यायां ना च ना करीषाग्नौ । श्रोण्यां भृशे किलिंजे गजगण्डे शवरथे शवे च कटः ॥ १८ ॥ Vaijayantī 6.5.18
- वैजयन्ती बाढम्परा निहीनेऽनावृत्तौ बत त्वामन्त्रणेऽद्भुते । तोषे खेदे कृपायां च बाढं त्वनुमते भृशे ॥ २६ ॥ Vaijayantī 8.7.26