कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नितान्त

nitāntaवि · adj.

In 13 kośas: 11 synonym verses, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1506 · p. 57
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १५०५ ॥अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः ।भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ १५०६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.67
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.718 · p. 83
निविडं निविरीशं च दृढं गाढं प्रचक्षते ।कामं प्रकामं पर्याप्तं नितान्तं भृशमुच्यते ॥ ७१८ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.18 · p. 381
अतेर्बलार्थमात्राः स्युर्भृशमुद्गाढनिर्भरे ।तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.167 · p. 24
अतिमर्यादमुद्गाढं गाढं बाढं च निर्भरम् ।नितान्तैकान्ततीव्राणि निःसीममतिमात्रवत् ॥ १६७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.99 · p. 106
घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणंशिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् ।श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणंप्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.379 · p. 99
भृशं बाढं तथा तीव्रं दृढोद्गाढे तथा समे ।नितान्तनिर्भरोत्कर्षातिमर्यादा भरे स्मृताः ॥ ३७९ ॥
अनुष्टुप्
genderअindecl.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2742 · p. 446
उत्कर्षोऽतिशयस्तीव्रं नितान्तं निर्भरो भरः ।एकान्तमतिवेलञ्च गाढं बाढं भृशं पुनः ॥ २७४२ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.158 · p. 12
तीव्रं निर्भरमेकान्तं नितान्तमतिशायनम् ।भरश्चातिशयो वाढं भृशं स्यान्मान्तरमव्ययम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.132 · p. 18
अविरतसन्ततसततानारतमनवरतमनिशमश्रान्तम् ।नित्यमजस्रं तीव्रं भृशमतिवेलं नितान्तमत्यन्तम् ॥ १३२ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.132 · p. 212
तीव्रं तु गाढमेकान्तं नितान्तं दृढबाढवत् ।वशेऽनर्गलमुद्दाममुच्छृंखलमयन्त्रितम् ॥ १३२ ॥
अनुष्टुप्
genderविadj.

नितान्त as a meaning in nānārtha verses

  • धरणिकोश दृढव्यूढः पृथुतरे ख्यातो न्यस्तसंहतयोरपि । दृढः स्थूले नितान्ते च प्रगाढे बलवत्यपि ॥ Dharaṇikośa 13.2.1
  • धरणिकोश अतिअतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽप्यति । नितान्तासंप्रतिक्षेपवाक्येऽप्येष सुसम्मतः ॥ Dharaṇikośa 34.7.8
  • कोषकल्पतरु तीव्रस्त्रियां पुनः षण्मुखमातरि स्या- त्तीव्रं नितान्ते त्रिषु तीक्ष्णकट्वोः । स्त्री गण्डदूर्वाकटुकासुरीषु तृप्रः पुरोडाशगतः पुमान्स्यात् ॥ ५४ ॥ Koṣakalpataru 6.27.54
  • नानार्थार्णवसंक्षेप तीव्रसूर्येऽथ स्त्री वचायां स्यात् तीक्ष्णा त्रिर्निशितोष्णयोः । आत्मत्यजि च तीव्रं तु त्रि(तू ? षू )त्कृष्टनितान्तयोः ॥ ५४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.546
  • शब्दरत्नावली दृढदृढं त्वतिशयस्थूले स्यात्प्रगाढनितान्तयोः । माढिः स्त्री पत्रभङ्गे च तथा दैन्यप्रकाशने ॥ मूढः शिशौ तन्द्रिते च वाढा च दीप्तिमुख्ययोः । बाढं प्रतिज्ञादृढयो रूढं जातप्रसिद्धयोः ॥ व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥ Śabdaratnāvalī 7.14.3
  • त्रिकाण्डशेष तीव्रइतिकर्तव्यता तन्त्रमुपायश्च द्विसाधकः । तीव्रं कटुनितान्तञ्च दर्दरः शैलभुग्नयोः ॥ ३५५ ॥ Trikāṇḍaśeṣa 3.3.355