दृढ
dṛḍhaवि · adj.In 19 kośas: 44 synonym verses, 9 as a nānārtha head word, 33 as a meaning of another word.
निष्ठुरः कक्खटः क्रूरः परुषः कर्कशः खरः ॥ १३८६ ॥दृढः कठोरः कठिनो जरठः कोमलः पुनः ।मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७ ॥
अनुष्टुप्
genderविadj.
व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् ।शुन्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् ॥ १४४६ ॥निबिरीसं घनं सान्द्रं नीरन्ध्रं बहलं दृढम् ।गाढमविरलं चाथ विरलं तनु पेलवम् ॥ १४४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderविadj.
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १५०५ ॥अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः ।भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ १५०६ ॥
अनुष्टुप्
genderअindecl.
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ।जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥
अनुष्टुप्
genderविadj.
कठोरः कठिनः क्रूरः कक्खटः कर्कशो दृढः ।उच्यते बहुलः स्थूलः पीनः पीवा च पीवरः ॥ ३४२ ॥
अनुष्टुप्
genderविadj.
निविडं निविरीशं च दृढं गाढं प्रचक्षते ।कामं प्रकामं पर्याप्तं नितान्तं भृशमुच्यते ॥ ७१८ ॥
अनुष्टुप्
genderविadj.
अयः कालायसं… शस्त्राख्यमिषमायसम् ।धीवरं भीमकं लोहं लोहकालदृढानि च ॥ ६६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
हरिवालुकमेलाह्वं मालुकं वालुकं दृढम् ।एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं पुनः ॥ ५०० ॥
अनुष्टुप्
genderक्लीneut.
अतेर्बलार्थमात्राः स्युर्भृशमुद्गाढनिर्भरे ।तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
पिष्टलोष्टतुराणां च सहैव निकटेन च ।मुण्डमण्डाण्डचूडानां दृढस्य श्रवणस्य च ॥ १५५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
संसक्त-सततासक्ताविरतानारतानि च ।तथा[17a]ऽनवरतं क्लीबेऽथात्यर्थे स्याद्भृशं दृढम् ॥ १६६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
गोधनः कट्फलोऽथ स्यादारीः खदिरवल्लरी ।धवो दृढः स्थिरो गौरः शाकटाक्षो भरोद्वहः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
स्युरात्मदर्श - मुकुर - मकुराः कर्करो दृढः ।यथामुखीनस्त्रितये स यथामुखदर्शनः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
सर्वाः स्युः सर्वसंज्ञा ये प्रियसर्वाः प्रिया[172b]खिलाः ।घनं निरन्तरं सान्द्रं नीरन्ध्रं बहलं दृढम् ॥ १ ॥
अनुष्टुप्metre not read in every line
genderविadj.
आक्रीड-कोदण्ड-तरण्ड-मण्ड-प्रकाण्ड-काण्डानि पलाण्डु-मुण्डौ ।दृढोऽथ बाणोऽप्यणु-वारवाण-कार्षापण-स्वर्ण-सुवर्ण-चूर्णाः ॥ ४४ ॥
उपजातिः
genderपुंक्लीm. n.
एलावालुके त्वैलेयं वालुके हरिवालुकम् ।सुगन्ध्यालुकमेल्वालं दुर्वर्णं प्रसरं दृढम् ॥ २३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
genderक्लीneut.
कठोरं कठिनं स्तब्धं कर्कशं परुषं दृढम् ।अश्लीलं काहलं फल्गु कोमलं मृदु पेशलम् ॥ १५५ ॥
अनुष्टुप्
genderविadj.
कठोरकठिनौ तुल्यौ दृढे ननु खरः समः ।कोमलं मृदुलं तुल्यं सोमालसुकुमारके ॥ २८० ॥
अनुष्टुप्
genderविadj.
निरन्तरघने सान्द्रं बहुले दृढमुच्यते ।नीरन्ध्रं गाढमित्येवं पेलवं विरलं तनु ॥ ३३५ ॥
अनुष्टुप्
genderविadj.
भृशं बाढं तथा तीव्रं दृढोद्गाढे तथा समे ।नितान्तनिर्भरोत्कर्षातिमर्यादा भरे स्मृताः ॥ ३७९ ॥
अनुष्टुप्
genderअindecl.
जकुटः कुर्कुटश्चैव कवटः कमठोऽप्यथ ।तरण्डमुण्डकोदण्डप्रकाण्डानि नडो दृढः ॥ १३६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कञ्चुकोपरिसंबद्धपट्टसूत्रेऽधिकाङ्गकः ।अधिकाङ्गः सारसनं दृढं प्रबलमित्यपि ॥ ३२४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
genderक्लीneut.
तीक्ष्णोपाययुते त्वायःशूलिको दृढ इत्यपि ।क्षुण्णे नविङ्कः प्रहतो व्युत्पन्नश्च प्रचक्रवान् ॥ ६७६ ॥
अनुष्टुप्
genderविadj.
तरलं कम्पनं कम्पं(म्प्रं?) पारिप्लवपरिप्लवे ।कठिने तु दृढं क्रूरं जरठं(ठरं?) प्रौढमेधितम् ॥ ६९९ ॥
अनुष्टुप्
genderविadj.
तीव्रोग्रौ दारुणं घोरं दृढमुद्दाममुत्कटम् ।सुकुमारः सुखस्पर्शः कोमलो मृदुलो मृदु ॥ ९५ ॥
अनुष्टुप्
genderविadj.
संहनं मेदुरं सान्द्रं नीरन्ध्रं निबिडं दृढम् ।प्रकटं तु स्फुटं स्पष्टं प्रकाशं व्यक्तमुल्बणम् ॥ १०५ ॥
अनुष्टुप्
genderविadj.
अत्यर्थं निर्भरं तीव्रं गाढं बाढं दृढं भृशम् ।पूरितं भरितं पूर्णं शून्यरिक्ताखिलोद्वसाः ॥ १०७ ॥
अनुष्टुप्
genderविadj.
कक्खटः खक्खटः क्रूरः कर्कशो निष्ठुरो दृढः ॥ २५१९ ॥
अनुष्टुप्
genderविadj.
निबिडं निबिरीसं च नीरन्ध्रं च निरन्तरम् ।घनं सान्द्रं दृढं गाढं वहलं बहलं तथा ॥ २६२९ ॥
अनुष्टुप्
genderविadj.
अत्यर्थमऽतिमर्यादरमतिमात्रं दृढं तथा ॥ २७४१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
अतिवेलं भृशं गाठं प्रगाढं सुदृढं दृढम् ।उद्गाढं वाढमत्यर्थं सुभृशं भृशमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
अतिरिक्तः समधिके दृढसन्धौ तु संहतः ।कठोरं कठिनं दृटं कक्खटं जरठं दृढम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 दृ (wrong syllable)
genderविadj.
अतिमात्रनिर्भरदृढान्येकान्तोद्गाढबाढानि ।अविरतमुख्याश्चैते शब्दाः सर्वे द्रुतादिवत्कार्याः ॥ १३३ ॥
उद्गीतिः
genderविadj.
कर्कशे तु घनक्रूरकठोरदृढनिष्ठुराः ।जरठः कठिनो नूत्नो नूतनोऽभिनवो नवः ॥ १६२७ ॥
अनुष्टुप्
genderविadj.
त्रुटिर्मात्रा स्त्रियौ पुंसि कणलेशलवाणवः ।शून्यं तु वशिकं तुच्छं रिक्तं च विदृढो दृढः ॥ १६७६ ॥
अनुष्टुप्
genderविadj.
विनाकृतं विरहितं मुक्तं निर्व्यूढमुच्यते ।तिक्तः कषायः सुरभिः कक्खटो निर्भरो दृढः ॥ १९ ॥
अनुष्टुप्
genderविadj.
अयः कृष्णायसं चीनं शस्त्राख्व्यं विषमायुधम् ।धीवरं धीमकं लोहं लौहकालदृढानि च ॥ ३३ ॥
अनुष्टुप्
genderक्लीneut.
नियुतस्तंबजदृढदैत्यगौरकुदानवम् ।अभयं चावदाहं च दूर्वा तु हरितालिका ॥ २३२ ॥
अनुष्टुप्
genderक्लीneut.
दृढदुष्करचित्राणि कर्माणि हरणानि च ।मुचुटी सिंहकर्णी च पताका चेति मुष्टयः ॥ १९३ ॥
अनुष्टुप्
genderक्लीneut.
कठोरनिष्ठुरक्रूरदृढदारुणकक्खटाः ।खरश्च सुकुमारे तु कोमलो मृदुलो मृदुः ॥ ५ ॥
अनुष्टुप्
genderविadj.
क्षीणं क्षामं विलिष्टं स्यात् स्थूलं तु बहलं दृढम् ।प्रभूतं प्रचुरं प्राज्यं बहलं बहुलं बहु ॥ ८४ ॥
अनुष्टुप्
genderविadj.
तीव्रं तु गाढमेकान्तं नितान्तं दृढबाढवत् ।वशेऽनर्गलमुद्दाममुच्छृंखलमयन्त्रितम् ॥ १३२ ॥
अनुष्टुप्
genderविadj.
अतिरिक्तोऽतिशयितो दृढः समधिकोऽधिकम् ।चतुरं पेशलं दक्षं कटु तूल्बणमुत्कटम् ॥ १३७ ॥
अनुष्टुप्
genderविadj.
बलवत्यप्यथ श्लेष्मसंज्ञे चर्मविकारके ।नृशण्डयोरथो दृश्या स्त्री सेवायामथ त्रिषु ॥ ६१३ ॥
अनुष्टुप्
doubtful
doubtful
दृढं त्वतिशयस्थूले स्यात्प्रगाढनितान्तयोः ।माढिः स्त्री पत्रभङ्गे च तथा दैन्यप्रकाशने ॥मूढः शिशौ तन्द्रिते च वाढा च दीप्तिमुख्ययोः ।बाढं प्रतिज्ञादृढयो रूढं जातप्रसिद्धयोः ॥व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
दृढ as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् वृत्तवृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥ Amarakośa 3.3.78
- धरणिकोश प्रगाढसम्मूढो दमितेऽप्यूढे उदूढः पृथुलोढयोः । प्रगाढः स्यादृढे कृच्छ्रेऽध्यारूढोऽधिकरूढयोः ॥ Dharaṇikośa 13.1.2
- धरणिकोश संहतमहद्राज्ये विशाले च गञ्जडुं ? गमशोक्रयोः । पर्वतौ गिरिदेवर्षी संहतौ दृढसंगतौ ॥ Dharaṇikośa 15.1.15
- धरणिकोश व्यायतगर्जितो मत्तमातङ्गे गर्जितं घननिःस्वने । व्यायतो व्यापृते दीर्घे व्यायतश्च दृढे भृशे ॥ Dharaṇikośa 15.2.50
- धरणिकोश वृत्तवृत्तं दृढमधीतं च वृत्तं वृत्तौ मृतेऽपि च । चरित्रच्छन्दसोर्वृत्तं वर्तनातीतयोरपि ॥ Dharaṇikośa 15.3.3
- कोषकल्पतरु प्रगाढप्ररूढं कठोरे तथोद्बद्धमूले समूढं पुनः पुञ्जिते तत्क्षणोत्थे । विलूने तथोपप्लवे नापि पीने- ऽप्युदूढं सुगुप्ते प्रमीढं पुनः स्यात् । घने मू[278a]त्रितेऽथ प्रगाढं सुकृच्छ्रे दृढेऽध्यूढ ईशे ससापत्न्यनार्याम् ॥ ९९ ॥ Koṣakalpataru 6.14.99
- कोषकल्पतरु वृत्तछन्दस्यपि स्त्री न दृढे त्वतीते मृते वृते वर्तुलकेऽन्यवच्च । अन्तो विनाशे चरमे स्वरूपे प्रान्ते तु न स्त्री निकटे त्रिलिङ्ग्याम् ॥ ३० ॥ Koṣakalpataru 6.16.30
- कोषकल्पतरु संहतसुरता निर्जरभावे सुरतं[तु]स्याद्रहःकेलौ । प्रहतं वितते क्षुण्णे संगतदृढयोस्तु संहतं प्राहुः ॥ ८१ ॥ Koṣakalpataru 6.16.81
- कोषकल्पतरु व्यायतस्याद्व्यायतं दीर्घदृढाधिकेषु व्यासक्तचेतस्यपि योगभेदे । व्याघात उक्तः प्रहृतौ च विघ्ने संघे तु घाते नरकान्तरे च ॥ १० ॥ Koṣakalpataru 6.16.10
- कोषकल्पतरु घनपरे महर्लोकत ईरितोऽपि लोकेऽत्र लोकेऽपि जनश्च नीचे । जनी स्नुषायां स्याज्जनने घनस्तु मेघे दृढे विस्तृतिसान्द्रयोश्च । दृढेऽप्ययोमुद्गरके * गात्रे वाद्ये पुनर्मध्यमनृत्यकेऽन्त्ये ॥ ८४ ॥ Koṣakalpataru 6.21.84
- कोषकल्पतरु कर्करकालकूटापदोरन्त्यलिङ्गे शमी- जे फले वर्करः स्याद्वयःस्थे पशौ । नर्मभेदेऽप्यथो कर्करो दर्पणे भेद्यलिङ्गस्त्वसौ कीर्तितो ज्ञैर्दृढे ॥ ३३ ॥ Koṣakalpataru 6.27.33
- कोषकल्पतरु गह्वरपुंसि वास्तव्यके वाणिजे नीवरो गह्वरं कन्दरे कैतवे संकटे । भक्तसिक्थे यमे यक्ष्मके केसरे कौत्सिताम्बे दृढे( ? )पार्परो भस्मनि ॥ ३४ ॥ Koṣakalpataru 6.27.34
- कोषकल्पतरु कर्कशस्यात्कर्कशोऽस्त्री कठिने दयोने क्रूरे दृढे च त्रिषु पुंसि चेक्षौ । कम्पिल्लके कासकमर्दकेऽथ गिरीश उक्तो धिषणे शिवे च ॥ २३ ॥ Koṣakalpataru 6.30.23
- नानार्थार्णवसंक्षेप वीडुवीडुर्दृढे त्रि क्लीबं तु बले व्युष्टं तु नप्यदः । प्रभाते च विवासे च व्युषिते तु त्रिषु स्मृतम् ॥ १२७१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1271
- नानार्थार्णवसंक्षेप वृत्तवृत्तं तु क्ली नरेऽप्यन्ये स्वरूपाचारवृत्तिषु । पद्यव्यक्तिषु सम्भक्तौ त्रिषु तु स्याद्दृढे मृते ॥ १२७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1279
- नानार्थार्णवसंक्षेप व्यायतव्यायतं व्यापृते दीर्धे दृढे विगतवाक् पुनः । वीते च निष्प्रभे चाथ विसृतं विगते तते ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 3.4.50
- नानार्थार्णवसंक्षेप कर्करकर्करस्तु पुमानस्थ्नि पाषाणे दर्पणेऽपि च । दृढे तु भेद्यलिङ्गः स्यादित्याहुरथ कर्करी ॥ ३२५ ॥ Nānārthārṇavasaṃkṣepa 4.325
- नानार्थार्णवसंक्षेप सहसानसहचारिणि तु त्रिः स्यात् सहसानः पुनर्द्वयोः । मयूरे यजमाने तु त्रिर्दृढेऽथ सकृत्प्रजः ॥ ६४९ ॥ Nānārthārṇavasaṃkṣepa 6.649
- परमानन्दीयनाममाला कर्कशकर्कशः परुषे तिग्मे खड्गे साहसिके दृढे । कुमारो युवराजे च कार्तिकेयेऽपि बालके ॥ ११९ ॥ Paramānandīyanāmamālā 5.7.119
- शब्दरत्नावली प्रगाढप्रमीढो मूत्रिते मेघे प्रगाढो दृढकृच्छ्रयोः । प्ररूढो जठरे बद्धमूले जातप्रवृद्धयोः । आरूढः(?) सम्बले वहणौ भुग्ने सद्योजातेऽनुपस्थिते ॥ Śabdaratnāvalī 7.14.7
- शब्दरत्नावली वृत्तवाच्यलिङ्गं दृढे क्लीबं छन्दश्चारित्रवृत्तिषु । शक्तिरुत्साहगौर्योस्तु बले वस्त्रान्तरे स्त्रियाम् ॥ Śabdaratnāvalī 7.16.57
- शब्दरत्नावली व्यायतवहतुः सचिवे पान्थे वलीवर्दे पुमानयम् । वनिता स्त्री तु कान्तायां जातरागस्त्रियामपि ॥ याचिते सेविते ख्याते त्रिषु स्याद्ददिभिद्यपि (?) । वसतिर्वेश्मरजनीवासभूमिषु च स्त्रियाम् ॥ व्यायतञ्च दृढे दीर्घे व्यापितेऽतिशयेऽन्यवत् ॥ Śabdaratnāvalī 7.16.132
- शब्दरत्नावली घनत्रिषु सान्द्रे दृढे पूर्णे निबिडे सम्पुटेऽपि च । चीनो व्रीहिमृगभिदोस्तन्तौ देशेंऽशुके पुमान् ॥ Śabdaratnāvalī 7.20.5
- शब्दरत्नावली ग्रावन्ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥ गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥ चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥ चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥ चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥ चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥ छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥ जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ Śabdaratnāvalī 7.20.55
- शब्दरत्नावली कर्कशकर्कशो निर्दये क्रूरे काम्पिल्येऽमसृणेऽपि च । काशमर्दे साहसिके दृढे हिमकरे पुमान् ॥ Śabdaratnāvalī 7.30.14
- शब्दरत्नाकर बाढम्तोषे खेदे कृपायां च बाढं त्वनुमतौ दृढे । खेदानुकम्पासंतोषविस्मयामन्त्रणे बत ॥ २२७४ ॥ Śabdaratnākara 5.2.2274
- तन्त्राभिधान ढयाम्यपादाङ्गुली पूर्णोऽप्युमाकान्तस्तथा हरिः । शङ्खनाभिर्दृढं लोहो दाहको ढा-र्णकः स्मृतः ॥ ३१ ॥ Tantrābhidhāna 6.31
- त्रिकाण्डशेष व्यायतदृढेऽपि व्यायतं शुक्तिमुक्तास्फोटाश्वलक्ष्मणोः । अत्रभेदेऽपि शुक्तिः स्याच्छान्तिः स्यान्मङ्गले शमे ॥ १८६ ॥ Trikāṇḍaśeṣa 3.3.186
- त्रिकाण्डशेष कर्करसिद्धस्थानेऽपि च क्षेत्रं कर्करौ दृढदर्पणौ । शिंशपायां कृष्णसारः स्नुह्याञ्चाऽथोत्पलेऽपि च ॥ ३३९ ॥ Trikāṇḍaśeṣa 3.3.339
- वैजयन्ती बाढबलो रामे बलाढ्ये च बाढं त्वनुमते दृढे । बिंबोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु ॥ ५५ ॥ Vaijayantī 6.5.55
- वैजयन्ती वृत्तत्रिष्वतीतदृढाधीतवर्तुलेष्वथ गीष्पतौ । श्रेष्ठोक्षाश्वाखुरेतःसु पुन्धर्मेन्द्रबले वृषः ॥ ७७ ॥ Vaijayantī 6.5.77
- वैजयन्ती प्रगाढमिश्रास्निग्धौ च परुषौ प्रगाढो गहने दृढे । पामरोऽपशदेऽज्ञे च बालिशो बालमूर्खयोः ॥ २० ॥ Vaijayantī 7.4.20
- वैजयन्ती व्यायतविगतौ वीतनिस्पृहौ विविक्तौ शुद्धनिर्जनौ । विवर्णौ मूर्खदुर्वर्णौ व्यायतो व्यापृते दृढे ॥ २४ ॥ Vaijayantī 7.4.24