कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गाढ

gāḍhaवि · adj.

In 13 kośas: 18 synonym verses, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1447 · p. 55
व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् ।शुन्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् ॥ १४४६ ॥निबिरीसं घनं सान्द्रं नीरन्ध्रं बहलं दृढम् ।गाढमविरलं चाथ विरलं तनु पेलवम् ॥ १४४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1506 · p. 57
अत्यर्थे गाढमुद्गाढं बाढं तीव्रं भृशं दृढम् ॥ १५०५ ॥अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः ।भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ १५०६ ॥
अनुष्टुप्
genderअindecl.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.67
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥नित्यानवरताजस्रमप्यथातिशयो भरः ।अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.718 · p. 83
निविडं निविरीशं च दृढं गाढं प्रचक्षते ।कामं प्रकामं पर्याप्तं नितान्तं भृशमुच्यते ॥ ७१८ ॥
अनुष्टुप्
genderविadj.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.14 · p. 21
ध्वान्तं तिमिरमासक्तं तामिस्रं शार्वरं तमः ।आततिश्वान्धकारश्च गाढं सन्तमसं तमम् ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.119 · p. 227
प्रभूतं प्रचुरं प्राज्यमदभ्रं पुरुहुः पुरुः ।भूयो भूरि स्फिरं गाढं निविडं विरलं पुनः ॥ ११९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.18 · p. 381
अतेर्बलार्थमात्राः स्युर्भृशमुद्गाढनिर्भरे ।तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.167 · p. 24
अतिमर्यादमुद्गाढं गाढं बाढं च निर्भरम् ।नितान्तैकान्ततीव्राणि निःसीममतिमात्रवत् ॥ १६७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.2 · p. 22
निबिडं निबिरीसं च गाढं चाविरलं च तत् ।द्रढिष्ठं तु द्रढीयः स्याद्दार्ढ्यं तु द्रढिमा नरि ॥ २ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.335 · p. 93
निरन्तरघने सान्द्रं बहुले दृढमुच्यते ।नीरन्ध्रं गाढमित्येवं पेलवं विरलं तनु ॥ ३३५ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.378 · p. 99
पर्याप्तं [च?] प्रकामं च निकामं काममित्यपि ।यथेप्सितं तथेष्टं च अत्यर्थे गाढमुच्यते ॥ ३७८ ॥
अनुष्टुप्
genderअindecl.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण भूम्यधिकारस्तृतीयस्सर्गः Śabdacandrikā 3.24 · p. 40
महेन्द्रनीलरत्नं तु पारावत इतीर्यते ।पक्षिकं पेशलं गाढं गारुत्मतमितीर्यते ॥ २४ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.107 · p. 45
अत्यर्थं निर्भरं तीव्रं गाढं बाढं दृढं भृशम् ।पूरितं भरितं पूर्णं शून्यरिक्ताखिलोद्वसाः ॥ १०७ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2629 · p. 424
निबिडं निबिरीसं च नीरन्ध्रं च निरन्तरम् ।घनं सान्द्रं दृढं गाढं वहलं बहलं तथा ॥ २६२९ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2742 · p. 446
उत्कर्षोऽतिशयस्तीव्रं नितान्तं निर्भरो भरः ।एकान्तमतिवेलञ्च गाढं बाढं भृशं पुनः ॥ २७४२ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.157 · p. 11
अतिवेलं भृशं गाठं प्रगाढं सुदृढं दृढम् ।उद्गाढं वाढमत्यर्थं सुभृशं भृशमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.83 · p. 256
कामाप्त्यर्थे तु गाढमुद्गाढं भर-निर्भरौ ।जृम्भणं त्रिषु जृम्भा स्यात्, परिष्वङ्गेऽङ्कपालिवत् ॥ ८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.132 · p. 212
तीव्रं तु गाढमेकान्तं नितान्तं दृढबाढवत् ।वशेऽनर्गलमुद्दाममुच्छृंखलमयन्त्रितम् ॥ १३२ ॥
अनुष्टुप्
genderविadj.

गाढ as a meaning in nānārtha verses

  • कोषकल्पतरु भीषणस्याद्भीषणो दारुणगाढवाची त्रये रसे कु[282a]न्दुरुकीभवेऽन्त्ये । कल्याणमक्षय्यहिरण्यभद्रे खड्गे कृपाणश्छुरिकादिषु स्त्री ॥ २८ ॥ Koṣakalpataru 6.15.28
  • शब्दरत्नावली विस्रब्धवीवधो विवधो भारपर्याहारपयेषु च । विस्रब्धो गाढविश्रब्धानुद्भटेषु भवेत्त्रिषु ॥ Śabdaratnāvalī 7.19.33
  • शब्दरत्नावली लालसलालसो लालसा तृष्णायाचनौत्सुक्यगाढयोः । वयो योवनबाल्याद्योः क्लीबं स्याद्विहगेऽपि च ॥ Śabdaratnāvalī 7.32.31
  • शब्दरत्नावली आरात्आराद्दूरे समीपे च तथाभ्यन्तरगाढयोः । स्यात्कच्चिन्मङ्गले प्रश्ने हर्षे कामप्रवेदने ॥ पश्चात्प्रतीच्याञ्चरमे त्वधिकारे च दृश्यते । यदुत्प्रश्ने वितर्के च प्रकारार्थोपमानयोः ॥ Śabdaratnāvalī 8.1.28
  • वैजयन्ती दृढद्रुतं शीघ्रे शीघ्रगतेऽप्यवदीर्णविलीनयोः । दृढं गाढेऽधिके स्थूले धूतं त्यक्ते प्रकंपिते ॥ ८ ॥ Vaijayantī 6.4.8